SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । २९८ पंचोत्तरशतं पर्व | दयां कुरु महासाध्वि मुनिमानसनिर्मले । इति वाचो विनिश्वेरुवरिविद्दल लोकतः ॥। ४२ ।। ततः सरसिरुङ्गर्भकोमलं नखभावितम् । स्पृष्ट्रा वापीवधूरुर्महस्तैः पद्मक्रमद्वयम् ॥ ४३ ॥ प्रशांत कलुषावर्त्ता त्यक्तभीषणनिःस्वनाः । क्षणेन सौम्यतां प्राप्ता ततो लोकोऽभवत्सुखी ||४४ || उत्पलैः कुमुदैः पत्रैः संछन्ना साऽभवत्क्षणान् । सौरभ्यक्षीव भृंगौघसंगीतकमनोहरा ।। ४५ ॥ क्रौंचानां चक्रवाकानां हंसानां च कंदचकैः । तथा कादंबकादीनां सुस्वनानां विराजिता ||४६ || मणिकांचनसोपानैवचीसंतानसंगिभिः । पुष्पैर्मरकतच्छाया कोमलैश्चातिसत्तटा || ४७ ।। उत्तस्थावथ मध्येस्या विपुलं विमलं शुभम् । सहस्रच्छदनं पद्मविकचं विकटं मृदु ॥ ४८ ॥ नानाभक्तपरीतांगं रत्नोद्योतांशुकावृतम् । आसीत्सिंहासनं तस्य मध्ये तुल्येन्दुमंडलम् ।। ४९ ।। तत्रामरवरस्त्रीभिर्मा भैषीरिति सांचिता । सीताऽवस्थापिता रेजे श्रीरिवात्यद्भुतोदया ॥ ५० ॥ कुसुमांजलिभिः सार्द्धं साधु साध्विति निःस्वनः । गगनस्थैः समुत्सृष्टस्तुष्टदेव कदंब कैः ॥ ५१ ॥ जुगुंजुर्मजवो गुंजा विनेदुः पटहाः पटु । नांद्यो ननंदुरायत्तं चकणुः काहला : कलम् ।। ५२ ।। अशब्दायंत शंखौघा धीरं तूर्याणि दध्वनुः । ववणुर्विशदं वंशाः कांसतालानि चक्कणुः ॥ ५३ ॥ वल्गितान् क्ष्वेडितोद्धुष्टकुष्ठादिकरणोद्यताः । तुष्टा ननृतुरन्योन्यश्लिष्टा वैद्याधरा गणाः ।। ५४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy