________________
पद्मपुराणम् ।
२९७
पंचोत्तरशतं पर्व।
अभिधायेति सा देवी प्रविवेशानलं च तम् । जातं च स्फटिकं स्वच्छं सलिलं सुखशीतलम् ॥२९॥ भित्त्वेव सहसा क्षोणी तरसा पयसाधता । परमं पूरिता वापी रंगद्धंगकुलाऽभवत् ॥३०॥ नोत्सुकानि न काष्ठानि नोगारा न तृणादिकम् । आलोक्यते तदा तत्र वृद्धं पावकसूचनम् ॥३१॥ पर्यन्तबद्धफेनौषवलया वेगशालिनः । आवर्तास्तत्र संवृद्धा गंभीरा भीमदर्शनाः ॥ ३२ ।।। भवन्मृदंगनिस्वानात्क्वचिद्गुलुगुलायते । झुंझुंझुंभायतेऽन्यत्र क्वचित्पटपटायते ॥३३॥ क्वचिन्मुंचति हुंकारान्धुंकारान्क्वचिदायतान् । क्वचिद्दिमिदिमिस्वाना जुगुधुदिति क्वीचत् ।। क्चचित्कलकलारावांच्छसद्भसदिति क्वचित् । टुटु घंटासमुत्तस्थामिति क्वचिदितीति च ॥३५॥ एवमादिपरिक्षुब्धसागराकानिःस्वना । क्षणाद्रोधःस्थितं वापी लग्ना प्लावयितुं जनम् ॥ ३६॥ जानुमात्रं क्षणादंभः श्रोणिदधमभूत्क्षणात् । पुनर्निमेषमात्रेण स्तनद्वयसतां गतम् ॥ ३७॥ नैति पौरुषतां यावत्तावत्तस्ता महीचराः । किंकर्तव्यातुरा जाताः खेचरा वियदाश्रिताः ॥३८॥ कंठस्पर्शि ततो जाते वारिण्युरुजवान्विते । विहला संगता मंचास्तेऽपि चंचत्कतां गताः ॥३९॥ केचित्स्तवितुमारब्धा जातेभासि शिरोतिगे । वस्त्रडिंभकसंबंधसंदिग्धोकवाहनाः ॥४०॥ त्रायस्य देवि त्रायस्व मान्ये लक्ष्मि सरस्वति । महाकल्याणि धर्मात्ये सर्वप्राणिहितैषिणि ॥४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org