________________
पद्मपुराणम् ।
२९६
पंचोत्तरशतं पर्व ।
अशक्नुवन्निव द्रष्टुमुपसर्गं तथाविधम् । दयार्द्रहृदयः शीघ्रं भानुः क्वापि तिरोदधे ॥ १६ ॥ प्रज्वालज्वलनञ्चोग्रः सर्वाशासु महाजवः । गव्यूतिपरिमाणाभिर्ज्वालाभिर्विकलितः ॥ १७॥ किं निरंतरतीब्रांशुसहस्रैच्छादितं नमः । पातालं किंशुकांगौघाः सहसा किं समुत्थिताः ।। १८ ।। आहोस्विद्गगनं प्राप्तमुत्पातमयसंध्यया । हाटकात्मकमेकं तु प्रारब्धं भवितुं जगत् ॥ १९ ॥ सौदामिनीमयं किन्तु संजातं भुवनं तदा । जिगीषया परो जातः किमु जंगममंदरः ॥ २० ॥ वतः सीता समुत्थाय नितांत स्थिरमानसा । कार्योत्सर्ग क्षणं कृत्वा स्तुत्वा भावार्पितान् जिनान् २१ ऋषभादीन्नमस्कृत्य धर्मतीर्थस्य देशकान् । सिद्धान् समस्तसाधूंश्च सुव्रतं च जिनेश्वरम् ||२२|| यस्य संसेव्यते तीर्थं तदा सम्मदधारिभिः । परमैश्वर्यसंयुक्तैस्त्रिदशा सुरमानवैः ॥ २३ ॥ सर्वप्राणिहिताऽऽचार्यचरणौ च मनःस्थितौ । प्रणम्योदारगंभीरा विनीता जानकी जगौ ||२४|| कर्मणा मनसा वाचा रामं मुक्त्वा परं नरम् । समुद्वहामि न स्वप्नेप्यन्यं सत्यमिदं मम ।। २५ ।। नृतं वच्मि तदा मामेष पावकः । भस्मसाद्भावमप्राप्तामपि प्रापयतु क्षणात् ।। २६ ।। अथ पद्मान्नरं नान्यं मनसाऽपि वहाम्यहम् । ततोऽयं ज्वलनो घाक्षीन्मा मां शुद्धिसमन्विताम् २७ मिथ्यादर्शनिनीं पापां क्षुद्रिकां व्यभिचारिणीम् । ज्वलनो मां दहत्येष सतीं वृतस्थितां तु मा २८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org