________________
२९५
पद्मपुराणम् ।
पंचोत्तरशतं पर्व । विकासिमालतीमाला सुकुमारशरीरिका । नूनं यास्यति विध्वंसं स्पृष्टमात्रेव वहिना ॥ ३ ॥ अभविष्यदियं नो चेत्कुले जनकभूभृतः । परिवादमिमं नाप्स्यन्मरणं च हुताशने ॥ ४ ॥ उपलप्स्ये कुतः सौख्यं क्षणमप्यनया विना । वरं वासोऽनयाऽरण्ये न विना दिवि राजते ॥५॥ महानिश्चिन्तचित्तेयमपि मत्तुं व्यवस्थिता । प्रविशंती कृतास्थानिं रोर्बु लोकस्य लज्यते ॥ ६॥ उन्मुक्तसुमहाशब्दः सिद्धार्थः क्षुल्लकोऽप्ययम् । तूष्णीं स्थितः किमु व्याजं करोम्येतन्निवर्त्तते।।७॥ अथ वा येन यादृक्षं मरणं समुपार्जितम् । नियमं स तदाऽऽग्नोति कस्तद्वारयितुं क्षमः ॥ ८॥ तदाऽपहियमाणाया ऊर्ध्व क्षारमहोदधेः । मदनुव्रतचित्ताया नेच्छत्येषेति कोपिता ॥ ९ ॥ लंकाधिपतिना किं नालुप्तमस्याः शिरोऽसिना । येनाऽयमपरः प्राप्तः संशयोऽत्यंतदुस्तरः ॥१०॥ वरं हि मरणं श्लाघ्यं न वियोगः सुदुःसहः । श्रुतिस्मृतिहरोऽसौ हि परमः कोऽपि निंदितः ॥११॥ यावज्जीवं हि विरहस्तापं यच्छति चेतसः । मृतेति छिद्यते स्वैरं कथाकांक्षा च तद्गता ॥१२॥ इति चिंतातुरे तस्मिन् वाप्यां प्रज्वाल्यतेऽनलः । समुत्पन्नोरुकारुण्या रुरुदुर्नरयोषितः॥१३॥ ततोऽधकारितं व्योम धूमेन घनमुद्यता | अभूदकालसंप्राप्तप्रावृट् घरिवावृतम् ॥१४॥ भुंगालकमिवोद्भूतं जगदन्यदिदं तदा । कोकिलात्मकमाहोस्विदाहो पारापतात्मकम् ॥१५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org