________________
पद्मपुराणम्।
२९४
पंचोत्तरशतं पर्व। अप्सरोगणसंकीर्णाः साकेताभिमुखाः सुराः । अवतेरुरलं हृष्टाः पश्यन्तो धरणीतलम् ॥१२२॥ अवलोक्य ततः सीतावृत्तान्तं मेषकेतनः । शक्रं जगाद देवेंद्र पश्येदमपि दुष्करम् ॥ १२३ ॥ सुराणामपि दुःस्पर्शो महाभयसमुद्भवः । सीताया उपसर्गोऽयं कथं नाथ प्रवर्तते ॥ १२४ ॥ श्राविकायाः सुशीलायाः परमस्वच्छचेतसः । दुरीक्ष्यः कथमेतस्या जायतेऽयमुपप्लवः॥१२५॥ आखंडलस्ततोऽवोचदहं सकलभूषणम् । त्वरित बंदितुं यामि कर्त्तव्यं त्वमिहाश्रय ॥ १२६ ॥ अभिधायेति देवेंद्रो महेन्द्रोदयसंमुखम् । ययावेषोऽपि मेषांकः सीतास्थानमुपागमत् ॥ १२७ ॥ तत्र व्योमतलस्थोऽसौ विमानशिखरे स्थितः । सुमेरुशिखरच्छाये................ ॥ १२८ ॥ ................................ । रविरिव विराजमानः सर्वजनमनोहरं स पश्यति रामम् ॥१२९॥ इति श्रीरविषेणाचार्यप्रोक्ते श्रीपद्मपुराणे सकलभूषणदेवागमनाभिधानं नाम चतुरुत्तरशतं पर्व ॥१०४॥
अथ पंचोत्तरशतं पर्व । तां निरीक्ष्य ततो वापी तृणकाष्ठप्रपूरिताम् । समाकुलमना दध्याविति काकुत्स्थचंद्रमाः ॥ १॥ कुतः पुनरिमां कांतां पश्येयं गुणतूणिकाम् । महालावण्यसंपन्नां द्युतिशीलपरावृताम् ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org