SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । २९२ चतुरुत्तरशतं पर्व | पुरुषौ द्वावधस्ताद्राक्खन्यतामत्र मेदिनी । शतानि त्रीणि हस्तानां चतुष्कोणा प्रमाणतः ९६ प्रचंडबहलज्वालो ज्वाल्यतामाशुशुक्षणिः । साक्षान्मृत्युरिवोपात्तविग्रहो निर्विलंबितम् ।। ९७ ।। crissज्ञापयसीत्युक्त्वा महाकुद्दालपाणिभिः । किंकरैस्तत्कृतं सर्वं कृतांत पुरुषोत्तमैः ॥ ९८ ॥ यस्यामेवाथ वेलायां संवादः पद्मसीतयोः । क्रियते किंकरैर्भीममनुष्ठानं च दाहनम् ॥ ९९ ॥ तदनंतरं शर्वर्यां ध्यानमुत्तममीयुषः । महेन्द्रोदयमेदिन्यां सर्वभूषणयोगिनः ॥ १०० ॥ उपसर्गे महानासीज्जनितः पूर्ववैरतः । अत्यंतरौद्रराक्षस्या विद्युद्वक्त्राभिधानया ॥ १०१ ॥ अपृच्छदथ संबंध श्रेणिको मुनिपुंगवम् । ततो गणधरोऽवोचनरेंद्र श्रूयतामिति ॥ १०२ ॥ विजयात्तरे वास्ये सर्वं पूर्वत्र शोभिते | गुंजाभिधाननगरे राजाऽभूत्सिंहविक्रमः ॥ १०३ ॥ तस्य श्रीरित्यभूद्भार्या पुत्रः सकलभूषणः । अष्टौ शतानि तत्कान्ता अग्राः किरणमंडला || १०४॥ कदाचित्सा सपत्नीभिरुच्यमाना सुमानसा । चित्रे मैथुनिकं चक्रे देवी हेमशिखाभिधम् ॥ १०५ ॥ तं राजा सहसा वीक्ष्य परमं कोपमागतः । पत्नीभिश्चोच्यमानश्च प्रसादं पुनरागमत् ॥ १०६ ॥ सम्म नान्यदा सुप्तासाध्वी किरणमंडला | मुहुर्हेमशिखाभिख्यां प्रमादात्समुपाददे ॥ १०७ ॥ श्रुत्वा तां सुतरां क्रुद्धो राजा वैराग्यमागतः । प्राब्राजीत्साऽपि मृत्वाऽभूद्विद्युदास्येति राक्षसी १०८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy