________________
पद्मपुराणम् ।
२९१
चतुरुत्तरशतं पर्व । पातालं प्रविशेन्मेरुः शुष्येयुर्मकरालयाः। न पचलनं किंचित्सीताशीलब्रतस्य तु ॥ ८२॥ इंदुरकत्वमाच्छेदकैः शीतांशुतां व्रजेत् । न तु सीतापरीवादः कथंचित्सत्यतां ब्रजेत् ॥ ८३ ॥ विद्यावलसमृद्धेन मया पंचसु मेरुषु । वंदना जिनचंद्राणां कृता शाश्वतधामसु ॥ ८४ ॥ सा मे विपुलतां यायात्पद्मनाभ सुदुर्लभा । विपत्तिर्यदि सीतायाः शीलस्यास्ति मनागपि ।।८५।। भूरिवर्षसहस्राणि सचेलेन मया कृतम् । ततस्तेन शपे नाहं यथेमौ तव पुत्रको ।। ८६ ।। भीमज्वालावतीभंग सर्वभंगं सुनिष्ठुरम् । मा विक्षदनलं सीता तस्मात्पद्म विचक्षण ॥ ८७ ॥ व्याम्नि वैद्याधरो लोको धरण्यां धरणीचरः । जगाद साधु साधूक्तमिति मुक्तमहास्वनः ॥८॥ प्रसीद देव पनाम प्रसीद व्रज सौम्यताम् । नाथ मा राम मा राम कार्षीः पावकमानसम् ॥८९॥ सती सीता सती सीता न संभाव्यामिहान्यथा । महापुरुषपत्नीनां जायते न विकारिता ॥९॥ इति वाष्पभराद्वाचो गद्दाज्जनसागरात् । संक्षुब्धादभिनिश्चेरुाप्तसर्वदिगंतराः॥९१ ॥ महाकोलाहलस्वानः समं सवोसुधारिणाम् । अत्यंतशोकिनां स्थूला निपेतुर्वाष्पबिंदवः ॥ ९२॥ पद्मो जगाद यद्येवं भवंतः करुणापराः । ततः पुरा परिवादमभाषिध्वं कुतो जनाः ॥९३ ॥ एवमाज्ञापयत्तीव्रमनपेक्षश्च किंकरान् । आलंब्य परमं सत्त्वं विशुद्धिन्यस्तमानसः ॥ ९४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org