________________
पद्मपुराणम् ।
चतुरुत्तरशतं पर्व | अतिस्वल्पोऽपि सद्भावो मय्यस्ति यदि वा कृपा । क्षांत्यार्याणां ततः किं न नीत्वा वसतिमुज्झिता । अनाथानामबंधूनां दरिद्राणां सुदुःखिनाम् । जिनशासनमेतद्धि शरणं परमं मतम् ॥ ७० ॥ एवं गतेऽपि पद्माभ प्रसीद किमिहोरुणा । कथितेन प्रयच्छाऽऽज्ञामित्युक्त्वा दुःखिताऽरुदत् ॥ ७१ ॥ रामो जगाद जानामि देवि शीलं तवानघम् । मदनुव्रततां चोच्चैर्भावस्य च विशुद्धताम् ।। ७२ ।। परिवादमिमं किन्तु प्राप्ताऽसि प्रकटं परम् । स्वभावकुटिलस्वांतामेतां प्रत्यायय प्रजाम् ॥ ७३ ॥ एवमस्त्विमिति वैदेही जगौ सम्मदिनी ततः । दिव्यैः पंचभिरप्येषा लोकं प्रत्याययाम्यहम् ॥७४॥ विषाणां विषमं नाथ कालकूटं पिवाम्यहम् । आशीविषोऽपि यं घ्रात्वा सद्यां गच्छति भस्मताम् ॥ आरोहामि तुलां वह्निज्वालां रौद्रां विशामि वा । यो वा भवदभिप्रेतः समयस्तं करोम्यहम् ||७६ || क्षणं विचिन्त्य पद्माभो जगौ वह्निं विश्शेत्यतः । जगौ सीता विशामीति महासम्मदधारिणी ७७ प्रतिपन्नोऽनया मृत्युरित्युदीर्यत नारदः । शोकोत्पीडैरपीड्यन्त श्रीशैलाद्या नरेश्वराः । ७८ ।। पावकं प्रविविक्षन्तीं परिनिश्चित्य मातरम् । चक्रतुस्तद्गतिं बुद्धावात्मनोलवणांकुशौ ॥ ७९ ॥ महाप्रभावसंपन्नः प्रहर्षं धारयंस्ततः । सिद्धार्थक्षुल्लकोऽवोचदुद्धृत्य भुजमुन्नतम् ॥ ८० ॥ न सुरैरपि वैदेह्याः शीलव्रतमशेषतः । शक्यं कीर्त्तयितुं कैव कथा क्षुद्रशरीरिणाम् ॥ ८१ ॥
Jain Education International
२९०
For Private & Personal Use Only
www.jainelibrary.org