________________
पंद्मपुराणम् ।
२८९
चतुरुत्तरशतं पर्व ।
ततोऽभिमुखमायंती वीक्ष्य तां रभसान्विताम् । राघवोऽक्षोभ्यसत्त्वोऽपि सकंपहृदयोऽभवत् ॥५६॥ अचिंतयच्च मुक्ताऽपि वने व्यालसमाकुले । मम लोचनचौरीयं कथं भूयः समागता ॥ ५७ ॥ अहो विगतलज्जेयं महासत्त्वसमन्विता । यैवं निवास्यमानापि विरागं न प्रपद्यते ॥५॥ ततस्तदिगितं ज्ञात्वा वितानीभूतमानसा । विरहो न मयोत्तीर्ण इति साऽभूद्विषादिनी ।। ५९ ॥ विरहोइन्वतः कूलं मे मनः पात्रमागतम् । नूनमेष्यति विध्वंसमिति चिंताकुलाऽभवत् ॥ ६॥ किंकर्तव्यविमूढा सा पादांगुष्ठेन संगता । विलिखन्ती क्षितिं तस्थौ वलदेवसमीपगा ।। ६१ ॥ अग्रतोऽवस्थिता तस्य विरेजे जनकात्मजा । पुरंदरपुरो जाता लक्ष्मीरिव शरीरिणी ।। ६२ ॥ ततोऽभ्यधायि रामेण सीते तिष्ठसि किं पुरः । अपसपे न शक्तोऽस्मि भवतीमभिवीक्षितुम् ॥६३।। मध्याहे दीधितिं सौरीमाशीविषमणेः शिखाम् । वरमुत्सहते चक्षुरीक्षितुं भवतीं तु नो ॥ ६४ ॥ दशास्यभवने मासान्वहूनंतःपुराता । स्थिता यदाहृता भूयः समस्तं किं ममोचितम् ॥६५॥ ततो जगाद वैदेही निष्ठुरो नास्ति त्वत्समः । तिरस्करोषि मां येन सुविद्यां प्राकृतो यथा॥६६॥ दोहलच्छमना नीत्वा वनं कुटिलमानसः । गर्भाधानसमेतो मे त्यक्तुं किं सदृशं तव ॥६७ ॥ असमाधिमृति प्राप्ता तत्र स्यामहकं यदि । ततः किं ते भवेत्सिद्धं मम दुर्गतिदायिनः ॥ ६८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org