________________
पद्मपुराणम् ।
चतुरुत्तरशतं पर्व |
ततः परिषदं पृथ्वीं गंभीरां विनयस्थिताम् । वंद्यमानेष्वमाना च धीरा रामांगनाविशत् ||४३|| विषादी विस्मयी हर्षी संक्षोभी जनसागरः । वर्द्धस्व जय नंदेति चकाराम्रेडितं स्वनम् ॥ ४४ ॥ अहोरूपमहो धैर्यमहो सच्चमहो द्युतिः । अहो महानुभावत्वमहो गांभीर्यमुत्तमम् ॥ ४५ ॥ restrainiकत्वं समागमनसूचितम् । श्रीमज्जनकराजस्य सुतायाः सितकर्मणः ॥ ४६ ॥ एवमुद्धृषितांगानां नराणां सहयोषिताम् । वदनेभ्यो विनिश्रेरुर्वाची व्याप्तदिगंतराः || ४७ ॥ गगने खेचरो लोको धरण्यां धरणीचरः । उदात्तकौतुकस्तस्थौ निमेषरहितेक्षणः || ४८ ॥ प्रजातसम्मदाः केचित्पुरुषाः प्रमदास्तथा । अभीक्षांचक्रिरे रामं संक्रन्दनमिवामराः ॥ ४९ ॥ पार्श्वस्थ वीक्ष्य रामस्य केचिच्च लवणांकुशौ । जगदुः सदृशावस्य सुकुमाराविमाविति ॥ ५० ॥ लक्ष्मणं केचिदैक्षत प्रतिपक्षक्षयक्षमम् । शत्रुघ्नसुंदरं केचिदेके जनकनंदनम् ॥ ५१ ॥ ख्यातं केचिद्धनूमंतं त्रिकूटाधिपतिं परे । अन्ये विराधितं केचित्किष्किधनगरेश्वरम् ॥ ५२ ॥ केचिज्जनकाराजस्य सुतां विस्मितचेतसः । वसतिः सा हि नेत्राणां क्षणमात्रान्यचारिणाम् ५३ उपसृत्य ततो रामं दृष्ट्वा व्याकुलमानसा । वियोगसागरस्यतिं प्राप्तं जानक्यमन्यत ॥ ५४ ॥ प्राप्तायाः पद्मभार्याया लक्ष्मणो ददौ ततः । प्रणामं चक्रिरे भूषा संभ्रान्ता रामपार्श्वगाः ॥ ५५ ॥
Jain Education International
२८८
For Private & Personal Use Only
www.jainelibrary.org