________________
पद्मपुराणम् ।
२८७
चतुरुत्तरशतं पर्व। अस्माभिः किंकरगणा नियुक्ता भरतावनौ । परिवादरतो देव्या दुष्टात्मा वध्यतामिति ॥३०॥ पृथिव्यां योऽतिनीचोऽपि सीतागुणकथारतः । विनीतस्य गृहे तस्य रत्नवृष्टिर्निपात्यताम् ॥३१॥ अनुरागेण ते धान्यराशिषु क्षेत्रमानवाः । कुर्वन्ति प्रार्थनां शस्यसंपत्प्रार्थनतत्पराः ॥ ३२ ॥ एतत्ते पुष्पकं देवि प्रेषितं रघुभानुना । प्रसीदारुह्यतामेतद्गम्यतां कोशलां पुरीम् ॥ ३३ ॥ पद्मः पुरं च देशश्च न शोभते त्वया विना । यथा तरुगृहाकाशं लतादीपेन्दुमूर्तिभिः ॥३४॥ मुख मैथिलि पश्याद्य सद्यः पूर्णेन्दुरुक्प्रभोः । ननु पत्युर्वचः कार्यमवश्यं कोविद त्वया ॥३५॥ एवमुक्ता प्रधानस्त्रीशतोत्तमपरिच्छदा । महद्धर्थी पुष्पकारूढा तरसा नभसा ययौ ॥ ३६ ॥ अथायोध्यां पुरीं दृष्ट्वा भास्करं चारुसंगतम् । सा महेन्द्रोदयोद्याने निन्ये चिंतातुरा निशाम् ॥३७॥ यदुद्यानं सपनायास्तदासीत्सुमनोहरम् । तदेतत्स्मृतपूर्वोयास्तस्या जातमसांप्रतम् ॥ ३८॥ सीता शुद्धयनुरागाद्वा पद्मबंधावथोदिते । प्रसाधितेऽखिले लोके किरणैः किंकरैरिव ॥ ३९ ॥ शपथादिव दुर्वादे भीते ध्वान्ते क्षयं गते । समीपं पद्मनाभस्य प्रस्थिता जनकात्मजा ॥४०॥ सा करेणुसमारूढा दौमनस्याहतप्रभा । भास्करालोकदृष्टेव सानुगाऽऽसीन्महौषधिः ।। ४१॥ तथाप्युत्तमनारीभिरावृता भद्रभावना । रेजे सा नितरां तन्वी ताराभिर्वा विधोः कला ॥४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org