________________
२८६
पद्मपुराणम् ।
चतुरुत्तरशतं पर्व। तेषु स्त्रियः समं स्त्रीभिः पुरुषा पुरुषैः समम् । यथायोग्यं स्थिताः सर्वे शपथेक्षणकांक्षिणः॥१७॥ शयनासनतांबूलभक्तमाल्यादिनाखिलम् । कृतमागंतुलोकस्य सौस्थित्यं राजमानवैः ॥ १८ ॥ ततो रामसमादेशात्प्रभामंडलसुंदरः । लंकेशो वायुपुत्रश्च किष्किधाधिपतिस्तथा ॥ १९ ॥ चंद्रोदरसुतो रत्नजटी चेति महानृपाः । पौडरीकं पुरं याता बलिनो नभसा क्षणात् ॥ २० ॥ ते विन्यस्य बहिः सैन्यमन्तरंगजनान्विताः। विविशुर्जानकीस्थानं ज्ञापिताः सानुमोदनाः २१ विधाय जयशब्दं च प्रकीर्य कुसुमांजलिम् । पादयोः पाणियुग्मांकमस्तकेन प्रणम्य च ॥२२॥ उपविष्टा महीपृष्ठे चारुकुट्टिमभासुरे । क्रमेण संकथां चक्रुः पौरस्त्या विनयानताः ॥ २३ ॥ संभाषिता सुगंभीरा सीतास्रपिहितेक्षणा । आत्माभिनंदनप्रायं जगाद परिमंथरम् ॥ २४ ॥ असज्जनवचोदावदग्धान्यंगानि सांप्रतम् । क्षीरोदधिजलेनापि न मे गच्छति निवृतिम् ॥ २५॥ ततस्ते जगदुर्देवि भगवत्यधुनोत्तमे । शोकं सौम्ये च मुंचस्व प्रकृतौ कुरु मानसम् ॥ २६ ॥ असुमान्विष्टपे कोऽसौ त्वयि यः परिवादकः। कोऽसौ चालयति क्षोणी वढेः पिबति काशिखाम् २७ मुमेरुमूर्तिमुत्क्षेप्तुं साहसं कस्य विद्यते । जिह्वया लेढि मूढात्मा कोऽसौ चंद्रार्कयोस्तनुम् ॥२८॥ गुणरत्नमहीधं ते कोऽसौ चालयितुं क्षमः । न स्फुटत्यपवादेन कस्य जिहा सहस्रधा ॥ २९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org