SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । २८५ चतुरुत्तरशतं पर्व। अनघं वेद्मि सीतायाः शीलमुत्तमचेतसः । प्राप्तायाः परिवादं तु पश्यामि वदनं कथम् ॥ ४ ॥ समस्तं भूतले लोकं प्रत्याययतु जानकी । ततस्तया समं वासो भवेदेव कुतोऽन्यथा ॥५॥ एतस्मिन्भुवने तस्मान्नृपाः जनपदैः समम् । निमंत्र्यंतां परं प्रीत्या सकलाश्च नभश्चराः ॥६॥ समक्षं शपथं तेषां कृत्वा सम्यग्विधानतः । निरघप्रभवं सीता शचीव प्रतिपद्यताम् ॥ ७ ॥ एवमस्त्विति तैरेवं कृतं क्षेपविवर्जितम् । राजानः सर्वदेशेभ्यः सर्वदिग्भ्यः समाहृताः ॥ ८॥ नानाजनपदा बालवृद्धयोपित्समन्विताः । अयोध्यानगरी प्राप्ता महाकौतुकसंगताः ॥९॥ असूर्यपश्यनार्योऽपि यत्राऽऽजग्मुःससंभ्रमाः । ततः किं प्रकृतिस्थस्य जनस्यान्यस्य भण्यताम् १० वर्षीयांसोऽतिमात्रं ये बहुवृत्तांतकोविदाः । राष्ट्रप्राग्रहराः ख्यातास्ते चान्ये च समागताः ।।११।। तदा दिक्षु समस्तासु मार्गत्वं सर्वमेदिनीम् । नीता जनसमूहेन परसंघट्टमीयुषा ॥ १२ ॥ तुरगैः स्यन्दनैर्युग्यैः शिविकाभिर्मतंगजैः । अन्यैश्च विविधैर्यानोकसंपत्समागताः ॥१३॥ आगच्छद्रिः खगैरू लमधश्च क्षितिगोचरैः । जगजंगममेवेति तदा समुपलक्ष्यते ॥ १४ ॥ सुप्रपंचाः कृता मंचाः क्रीडापर्वतसुंदराः । विशालाः परमा शाला मंडिता दृष्यमंडपाः ॥१५॥ अनेकपुरसंपन्नाः प्रासादाः स्तंभधारिताः । उदारजालकोपेता रचितोदारमंडपाः ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy