SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २८४ चतुरुत्तरशतं पर्व | कस्याश्चिदन्यवनिताकर्णाभरणसंगतः । विच्छिन्नपतितो हारः कुसुमांजलितां गतः ॥ ९४ ॥ बभूवुर्दृष्टयस्तासां निमेषपरिवर्जिताः । गतयोरपि कासांचित्तयोर्दूरं तथा स्थिताः ॥ ९५ ॥ इति वरभवनाद्विस्त्रीलतामुक्तपुष्पप्रकरगलितधूलीधूसराकाशदेशाः । परमविभवभाजो भूभुजो राघवाद्याः प्रविविशुरतिरम्याः मंगलं मंगलाढ्यम् ॥९६॥ अनभिसंहितमीदृशमुत्तमं दयितजं तु समागमनोत्सवम् । भजति पुण्यरविप्रतिबोधितप्रवरमानसचारिरुहो जनः ॥ ९७ ॥ इति श्रीरविषेणाचार्यप्रोक्ते पद्मपुराणे रामलवणांकुशसमागमाभिधानं नाम त्र्युत्तरशतं पर्व ॥ १०३ ॥ पद्मपुराणम् । अथ चतुरुत्तरशतं पर्व | अथ विज्ञापितोऽन्यस्मिन्दिने हलधरो नृपः । मरुनंदन सुग्रीवविभीषणपुरःसरैः ॥ १ ॥ नाथ प्रसीद विषयेऽन्यस्मिञ्जनकदेहजा । दुःखमास्ते समानेतुं तामादेशो विधीयताम् ॥ २ ॥ निःश्वस्य दीर्घमुष्णं च क्षणं किंचिद्विचिन्त्य च । ततो जगाद पद्माभो वाष्पश्यामितदिङ्मुखः ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy