________________
पद्मपुराणम् 1
२८३
व्युत्तरशतं पर्व ।
किमेव परमप्राणे तुदसि क्षिप्तमानसे । पुरः पश्यसि किं नेमां पीडितां भर्तृदारिकाम् ॥ ८१ ॥ मागवता तिष्ठ पतितास्मि गताऽसि किम् । निश्चेतनत्वमेवं त्वं किं कुमारं न वीक्षसे ॥८२॥ हा मातः कीदृशी योषिद्यदि पश्यामि तेन किम् । इमां मे प्रेरिकां कस्माच्चं वारयसि दुर्बले ८३ एतौ तावर्द्धचंद्राभललाटौ लवणांकुशौ । यावेतौ रामदेवस्य कुमारौ पार्श्वयोः स्थितौ ॥ ८४ ॥ अनंगलवणः कोऽत्र कतरो मदनांकुशः । अहो परममेतौ हि तुल्याकारावुभावपि ।। ८५ । महारजतरागात्तं वरं वाणं दधाति यः । लवणोऽयं शुकच्छायवस्त्रोऽसावंकुशो भवेत् ॥ ८६ ॥ अहो पुण्यवती सीता यस्याः सुतनयाविमौ । अहो धन्यतमा सा स्त्री यानयो रमणी भवेत् ॥८७॥ एवमाद्याः कथास्तत्र मनः श्रोत्रमलिम्लुचाः । प्रवृत्ताः परमस्त्रीणां तदेकगतचक्षुषाम् ॥ ८८ ॥ कपोलमतिसंघट्टा कुंडलोरगदंष्ट्रया । न विवेद तदा काचिद्विक्षतं तद्गतात्मिकाः ॥ ८९ ॥ अन्यनारी भुजोत्पीडात्कस्याश्चित्सकवाटके | कंचुकेऽभ्युन्नतो रेजे स्तनांशः सघनेंदुवत् ॥ ९० ॥ न विवेद च्युतां कांचीं काचिन्निक्वणिनीमपि । प्रत्यागमनकाले तु संदिता स्खलिताऽभवत् ९१ धम्मिल्लमकरीदंष्ट्रा कोटिस्फाटितमंशुकम् । महत्तरिकया काचिदृष्टृषत्परिभाषिता ॥ ९२ ॥ विभ्रसि मनसोऽन्यस्य वपुषि श्लथतां गता । विस्रस्तबाहुलतिका बदनात्कटकोऽपतत् ॥ ९३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org