SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । व्युत्तरशत पर्व । सगरोऽहमिमौ तौ मे वीरभीमभगीरथौ । इति बुद्धया कृतौपम्यौ दधार परमद्युतिम् ॥ ६८ ॥ पद्मः प्रीतिं परां बिभ्रद्वज्रजंघमपूजयत् । भामंडलसमस्त्वं मे सुचेता इति चावदत् ।। ६९ ॥ ततः पुरैव रम्यासौ पुनः स्वर्गसमा कृता । साकेता नगरी भूयः कृता परमसुंदरी ॥ ७० ॥ रम्या या स्त्रीस्वभावेन कलाज्ञानविशेषतः । आचारमात्रतस्तस्याः क्रियते भूषणादरः ॥ ७१ ॥ ततो गजघटा पृष्ठे स्थितं सूर्यसमप्रभम् । आरूढः पुष्पकं रामः सपुत्रो भास्करो यथा ॥ ७२ ॥ नारायणोऽपि तत्रैव स्थितो रेजे स्वलंकृतः । विद्युत्त्वाँश्च महामेघः सुमेरोः शिखरे यथा ॥७३।। बाह्योद्यानानि चैत्यानि प्राकारं च ध्वजाकुलम् । पश्यन्तो विविधैर्यानैः प्रस्थितास्ते शनैः शनैः ७४ त्रिप्रश्रुतद्विपाश्वीयं रथपादातसंकुलाः । अभवन्विशिखाश्चापध्वजछत्रांधकारिताः ॥ ७५ ॥ वरसीमंतिनीवृंदैगवाक्षाः परिपूरिताः । महाकुतूहलाकीर्णैर्लवणांकुशदर्शने ॥ ७६ ॥ नयनांजलिभिः पातुं सुंदयौं लवणांकुशौ । प्रवृत्ताः न पुनः प्रापुस्तृप्तिमुत्तानमानसाः ॥ ७७ ॥ तदेकगतचित्तानां पश्यंतीनां सुयोषिताम् । महासंघट्टतो भ्रष्टं न ज्ञातं हारकुंडलम् ।। ७८ ॥ मातर्मनागितो वक्त्रं कुरु मे किन्तु कौतुकम् । आत्मभरित्वमेतत्ते कियदच्छिन्नकौतुके ॥ ७९ ॥ विनतं कुरु मूर्धानं सखि किंचित्प्रसादतः । उनद्धासि किमित्येवं घम्मिल्लकमितो नय ।।८०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy