SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । २८१ व्युत्तरशतं पर्व। भवतोरन्यथाभावं प्रतिपद्य सुजातयोः । वेनि जीवेत ध्रवं नेति जानकी शोकविहला ॥५५॥ लक्ष्मणोऽपि सवाष्पाक्षः संभ्रान्तः शोकविह्वलः । स्नेहनिर्भरमालिंगद्विनयप्रणताविमौ ॥५६॥ शत्रुघ्नाद्या महीपालाः श्रुत्वा वृत्तान्तमीदृशम् । तमुद्देशं गताः सर्वे प्राप्ताः प्रीतिमनुत्तमाम् ॥५७॥ ततः समागमो जातः सेनयोरुभयोरपि । स्वामिनोः संगमे जाते सुखविस्मयपूर्णयोः ॥ ५८ ॥ सीताऽपि पुत्रमाहात्म्यं दृष्ट्वा संगममेव च । पौंडरीकं विमानेन प्रतीतहृदयाऽगमत् ॥ ५९ ॥ अवतीर्य ततो व्योम्नः संभ्रमी जनकात्मजः । स्वस्त्रीयौ निव्रणौ पश्यन्नालिलिंग सवाष्पदृक् ६० लांगूलपाणिरप्येवं प्राप्तः प्रीतिपरायणः । आलिंगति स्म तौ साधु जातमित्युच्चरन्मुहुः ॥६१ ॥ श्रीविराधितसुग्रीवावेवं प्राप्तौ सुसंगमम् । नृपा बिभीषणाद्याश्च सुसंभाषणतत्पराः ॥ ६२ ॥ अथ भूव्योमचाराणां सुराणामेव संकुलः । जातः समागमोऽत्यंतमहानंदसमुद्भवः ॥ ६३ ॥ परिप्राप्य परं कान्तं पद्मः पुत्रसमागमम् । बभार परमां लक्ष्मी धृतिनिर्भरमानसः ॥ ६४ ॥ मेने सुपुत्रलंभं च भुवनत्रयराज्यतः । सुदूरमधिकं रम्यं भावं कमपि संश्रितः ॥६५॥ विद्याधर्यः समानंदं ननृतुर्गगनांगणे । भूगोचरस्त्रियो भूमौ समुन्मत्तजगनिभम् ।। ६६ ॥ परं कृतार्थमात्मानं मेने नारायणस्तथा । जितं च भुवनं कृत्स्नं प्रमोदोत्फुल्ललोचनः ॥ ६७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy