________________
पद्मपुराणम् ।
व्युत्तरशतं पर्व । परिज्ञातमितः पश्चादापप्तदुःखसागरे । भवानिति न रत्नानामत्र जाता कृतार्थता ॥ ४२ ॥ लवणांकुशमाहात्म्यं ततो ज्ञात्वा समंततः । मुमोच कवचं शस्त्रं लक्ष्मणः शोककर्षितः ॥४३॥ श्रुत्वा तमथ वृत्तांतं विषादभरपीडितः । परित्यक्तधनुवमो घूर्णमाननिरीक्षणः॥४४॥ स्पंदनात्तरसोत्तीर्णो दुःखस्मरणसंगतः । पर्यस्तक्ष्मातले पद्मो मूछामीलितलोचनः ॥ ४५ ॥ चंदनोदकसिक्तश्च स्पष्टां संप्राप्य चेतनाम् । स्नेहाकुलमना यातः पुत्रयोरंतिकं द्रुतम् ॥ ४६॥ ततो रथात्समुत्तीर्य तौ युक्तकरकुड्मलौ । तातस्यानमतां पादौ शिरसा स्नेहसंगतौ ॥ ४७ ॥ ततः पुत्रौ परिष्वज्य स्नेहद्रवितमानसः । विलापमकरोत्पद्मो बाष्पदुर्दिनिताननः ॥ ४८॥ हा मया तनयो कष्टं गर्भस्थौ मंदबुद्धिना । निर्दोषौ भीषणेऽरण्ये विमुक्तौ सह सीतया ॥४९ ॥ हा वत्सौ विपुलैः पुण्यमेयाऽपि कृतसंभवौ । उदरस्थौ कथं प्राप्तौ व्यसनं परमं वने ॥ ५० ॥ हा सुतौ वज्रजंघोऽयं वने चेत्तत्र नो भवेत् । पश्येयं वा तदा वक्त्रपूर्णचंद्रमिमं कुतः ॥ ५१ ।। हा शावकाविमैरनेरमोधैर्निहतौ न यत् । तत्सुरैः पालितो यद्वा सुकृतेः परमोदयैः ॥ ५२ ॥ हा वत्सौ विशिखैर्वद्धौ पतितौ संयुगक्षितौ । भवंतौ जानकी वीक्ष्य किं कुर्यादिति वेद्मिनः ५३ निवासनकृतं दुःखमितरैरपि दुःसहम् । भवद्भ्यां सा सुपुत्राभ्यां त्यजिता गुणशालिनी ।।५४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org