________________
पद्मपुराणं ।
૨૦૦
व्युत्तरशतं पर्व । अंकुशस्यांतिकं गत्वा चक्रं विगलितप्रभम् । निवृत्य लक्ष्मणस्यैव पुनः पाणितलं गतम् ॥ २९ ॥ क्षिप्तं क्षिप्तं सुकोपेन लक्ष्मणेन त्वरावता । चक्रमंतिकमस्यैव प्रतियाति पुनः पुनः ॥ ३० ॥ अथ कुशकुमारेण बिभ्रता विभ्रमं परम् । धनुर्दंड: सुधीरेण भ्रामितो रणशालिना ॥ ३१ तथाभूतं समालोक्य सर्वेषां रणमीयुषाम् । विस्मयव्याप्तचित्तानां शेमुषीयमजायत || ३२ ॥ अयं परमसत्वोऽसौ जातचक्रधरोऽधुना । भ्रमता यस्य चक्रेण संशये सर्वमाहितम् || ३३ ॥ किमिदं स्थिरमाहोस्विद्धमणं समुपाश्रितम् । ननु न स्थिरमेतद्धि श्रूयतेऽस्यातिगर्जितम् ||३४|| अलीकं लक्षणैः ख्यातं नूनं कोटिशिलादिभिः । यतस्तदिहमुत्पन्नं चक्रमन्यस्य सांप्रतम् ||३५|| कथं वा मुनिवाक्यानामन्यथात्वं प्रजायते । किं भवंति वृथोक्तानि जिनेंद्रस्यापि शासने || ३६ || भ्रमितश्वापदंडोऽयं चक्रमेतदिति स्वनः । समाकुलः समुत्तस्थौ वक्रेभ्योऽस्तमनीषिणाम् ॥३७॥ तावल्लक्ष्मणवीरोऽपि परमं समुद्वहन् ! जगाद नूनमेतौ तावुदितौ बलचक्रिणौ ॥ ३८ ॥ इति व्रीडापरिष्वक्तं निष्क्रियं वीक्ष्य लक्ष्मणम् । समीपं तस्य सिद्धार्थो गत्वा नारदसंमतः ३९ जगौ नारायणो देव त्वमेवात्र कुतोऽन्यथा । जिनेंद्रशासनोक्तं हि निष्कंपं मंदरादपि ॥ ४० ॥ जानक्यास्तनयावेतौ कुमारौ लवणांकुशौ । ययोर्गर्भस्थयोरासीदसौ विरहिता वने ॥ ४१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org