________________
२७८
पद्मपुराणम् ।
व्युत्तरशतं पर्व। विज्ञातजातिसंबंधौ सापेक्षौ लवणांकुशौ । युयुधातेऽनपेक्षौ तु नितिौ रामलक्ष्मणौ ॥ १६ ॥ तथाऽप्यलं स दिव्यास्त्रो विषादपरिवार्जितः । प्रासचक्रशरासारं मुमुचे लक्ष्मणोंऽकुशे ॥ १७ ॥ वज्रदंडैः शरैर्वृष्टिं तामपाकरदंशुकः । पद्मनाभविनिर्मुक्तामनंगलवणो यथा ॥१८॥ उपवक्षस्ततः पनं प्रासेन लवणोऽक्षिणोत् । मदनांकुशवीरश्च लक्ष्मणं नैपुणान्वितः ॥ १९ ॥ लक्ष्मणं घूर्णमानाक्षिहदयं वीक्ष्य संभ्रमी । विराधितो रथं चक्रे प्रतीपं कोशलां प्रति ॥२०॥ ततः संज्ञां परिप्राप्य रथं दृष्ट्वाऽन्यतः स्थितम् । जगाद लक्ष्मणः कोपकपिलीकृतलोचनः ॥२१॥ भो विराधित सद्बुद्धे किमिदं भवता कृतम् । रथं निवर्त्तय क्षिप्रं रणे पृष्ठं न दीयते ॥ २२ ॥ पुखिपूरितदेहस्य स्थितस्याभिमुखं रिपोः । शूरस्य मरणं श्लाघ्य नेदं कर्म जुगुप्सितम् ।। २३ ।। सुरमानुषमध्येऽस्मिन् परामप्यापदं श्रिताः । कथं भजति कातर्य स्थिताः पुरुषमूर्द्धनि ॥२४॥ पुत्रो दशरथस्याहं भ्राता लांगललक्ष्मणः । नारायणः क्षितौ ख्यातस्तस्येदं सदृशं कथम् ॥२५॥ त्वरितं गदितेनैवं रथस्तेन निवर्तितः । पुनयुद्धमभूद्घोरं प्रतीपागतसैनिकम् ॥ २६ ॥ लक्ष्मणेन ततः कोपासंग्रामांतचिकीर्षया । अमोघमुद्धृतं चक्रं देवासुरभयंकरम् ॥ २७ ॥ ज्वालावलीपरीतं तदुष्प्रेक्ष्यं पूषसनिभम् । नारायणेन दीप्तेन पहितं हन्तुमंकुशम् ॥ २८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org