________________
२७६
पद्मपुराणम् ।
युत्तरशतं पर्व । पर्यस्तकरिसंरुद्धरणमार्गाकुलायतम् । नागमेघपरियोतन्मुक्ताफलमहोपलम् ॥ १९८॥ मुक्तासारसमाघातविकटं कर्मरंगकम् । नागोच्छालित'नागकृतखेचरसंगमम् ॥ १९९ ।। शिसक्रीतयशोरत्नं मूर्छाजनितविश्रमम् । मरणप्राप्तनिर्वाणं बभूव रणमाकुलम् ॥ २०० ॥
जीविततृष्णारहितं साधुस्वनजलधिलुब्धयौधेयम् ।
समरं समरसमासीन्महति लघिष्टे च वीराणाम् ॥ २०१॥ भक्तिः स्वामिनि परमा निष्क्रयदानं प्रचंडरणकंडूः ।
रवितेजसां भटानां जग्मुः संग्रामहेतुत्वम् ।। २०२॥ इति श्रीरविषेणाचार्यप्रोक्ते पद्मपुराणे लवणांकुशसमेतयुद्धाभिधानं धुत्तरशतं पर्व ॥ १०२ ॥
अथ त्र्युत्तरशतं पर्व। अतो मगधराजेन्द्र भवावहितमानसः । निवेदयामि युद्धं ते विशेषकृतवर्त्तनम् ॥१॥ सव्येष्टा वज्रजंघोऽभूदनंगलवणांबुधेः । मदनांकुशनाथस्य पृथुः प्रथितविक्रमः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org