________________
पद्मपुराणम् ।
२७४
द्वथुत्तरशतं पर्व। विमानशिखरावढा ततः संदृश्य जानकीम् । औदासीन्यं ययुः सर्वे विहायश्चरपार्थिवाः ॥१७२॥ कृतांजलिपुटाश्चैनां प्रणम्य परमादराः । तस्थुरावृत्य विभ्राणा विस्मयं परमोन्नतम् ॥ १७३ ।। वित्रस्तहरिणीनेत्रा समुद्रष्टतनूरुहा । वैदेही वलयोः संगमालुलोके सवेपथुः ॥ १७४॥ क्षोभयंतावथोदारं तत्सैन्यं प्रचलद्भजे | पद्मलक्ष्मीधरौ तेन प्रवृत्तौ लवणांकुशौ ॥ १७५ ॥ मृगनागारिसंलक्ष्यध्वजयोरनयोः पुरः । स्थितौ कुमारवीरौ तौ प्रतिपक्षमुखं श्रितौ ॥ १७६ ॥ आपातमात्रकेणैव रामदेवस्य सद्धजम् । अनंगलवणश्चापं निचकत्ते कृतायुधः ॥ १७७॥ विहस्य कामुकं यावत्सोऽन्यदा दातुमुद्यतः । तावल्लवणवीरेण तरसा विरथीकृतः ॥ १७८ ॥ अथान्यं रथमारुह्य काकुत्स्थोऽलघुविक्रमः । अनंगलवणं क्रोधात्ससर्प भ्रकुटी वहन् ॥ १७९ ॥ घमोकेदुर्निरीक्ष्याक्षः समुत्क्षिप्तशरासनः । चमरासुरनाथस्य वज्जीवासौ गतोऽतिकम् ।। १८० ॥ स चापि जानकीसूनुरुद्धृत्य सशरं धनुः । रणग्राघूर्णकं दातुं पद्मनाभमुपागत् ॥ १८१ ॥ ततः परमभूयुद्धं पद्मस्य लवणस्य च । परस्परं समुत्कृत्तशस्त्रसंघातकर्कशम् ॥ १८२ ॥ महाहवो यथा जातः पद्मस्य लवणस्य च । अनुक्रमेण तेनैव लक्ष्मणस्यांकुशस्य च ॥ १८३ ॥ एवं द्वन्द्वमभूयुद्धं स्वामिरागमुपेयुषाम् । सामंतानामपि स्वस्ववीरशोभाभिलाषिणाम् ॥ १८४ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org