SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ पहापुराणम्। २७२ . . युत्तरशतं पर्व। सिंहोदरः सुमेरुश्च बालिखिल्यो महाबलः । प्रचंडो रौद्रभूतिश्च शरभः स्पंदनः पृथुः ॥ १४६ ॥ कुलिशश्रवणश्चंडो मारिदत्तो रणप्रियः । मृगेन्द्रवाहनाद्याश्च सामंता मत्तमानसाः॥ १४७॥ सहस्रपंचकेयत्ता नानाशस्त्रांधकारिणः । निर्जग्मुर्वन्दिनां वृन्दैरुद्गीतगुणकोटयः ॥ १४८॥ एवं कुमारकोख्योऽपि कुटिलानीकसंगताः । दृष्टप्रत्ययशस्त्रांगे क्षणविन्यस्तचक्षुषः ॥१४९ ॥ युद्धानंदकृतोत्साहा नाथभक्तिपरायणाः । महाबलास्त्वरावत्यो निरीयुः कंपितक्षमाः ॥ १५० ॥ रथैः केचिन्नगैस्तुंगै_िपैः केचिद्धनोपमैः । महार्णवतरंगाभैस्तुरंगैरपरैः परे ॥ १५१ ॥ शिविकाशिखरैः केचिद्युगैर्योग्यतरैः परैः । निर्ययुर्वहुवादिबधिरीकृतदिङ्मुखाः ॥ १५२ ॥ सकंकटशिरस्त्राणाः क्रोधालिंगितचेतसः । पुरादृष्टसुविक्रान्तप्रसादपरसेवकाः ॥ १५३ ॥ ततः श्रुत्वा परानीकनिःस्वनं संभ्रमान्वितः । सनह्यतेति सैन्यं स्वं वनजंघः समादिशत् १५४ ततस्ते परसैन्यस्य श्रुत्वा निःस्वनमावृताः । स्वयमेव सुसन्नद्धास्वस्यांतिकमुपागमन् ॥ १५५ ॥ कालानलाः प्रचूडांगवंगा नेपालवर्वराः । पौंड्रा मागधसौस्नाश्च पारशैलाः ससिंहलाः ॥१५६॥ कालिंगकाश्च राजानो रत्नांकाद्या महाबलाः एकादशसहस्राणि युक्ता ह्युत्तमतेजसः ॥ १५७ ।। एवं तत्परमं सैन्यं परसैन्यकृताननम् । संघट्टमुत्तमं प्राप्तं चलितं प्रचलायुधम् ॥ १५८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy