________________
पद्मपुराणम् ।
२७१
द्वयुत्तरशतं पर्व |
प्रभामंडलमायातं जनकं मातरं तथा । दृष्ट्वा सीता नवीभूतशोकोत्थाय त्वरान्विता ॥ १३३ ॥ विप्रलापं परिष्वज्य चक्रेऽसकृतदुर्दिना । निर्वासनादिकं दुःखं वेदयंती सुविला ॥ १३४ ॥ सांत्वयित्वाऽतिकृच्छ्रेण तां प्रभामंडलो जगौ । देवि संशयमापन्नौ पुत्रौ ते साधु नो कृतम् || १३५ ।। हलचक्रधरौ ताभ्यामुपेत्य क्षोभितौ यतः । सुराणामपि यौ वीरौ न जय्यौ पुरुषोत्तमौ ॥ १३६ ॥ कुमारयोस्तयोर्यावत्प्रमादो नोपजायते । व्रजामस्तावदेह्याशु चिंतयामोऽभिरक्षणम् ।। १३७ ।। ततः स्नुषासमेताऽसौ भामंडलविमानगा । प्रवृत्ता तनयौ तेन वज्रजंघबलान्वितौ ॥ १३८ ॥ रामलक्ष्मणयोर्लक्ष्मीं कोऽसौ वर्णयितुं क्षमः । इति श्रेणिक संक्षेपात्कीर्त्यमानमिदं शृणु ॥ १३९॥ रथाश्वगजपादात महार्णवसमावृतौ । वहंतामिव संरंभं निर्गतौ रामलक्ष्मणौ ।। १४० ।। अश्वयुक्तरथारूढः शत्रुघ्नश्च प्रतापवान् । हारराजितवक्षस्को निर्ययौ युद्धमानसः ॥ १४१ ॥ ततोऽभवत्कृतांतास्यः सर्वसैन्यपुरःसरः । मानी हरिणकेशीव नाकौकः सैनिकाग्रणीः ॥ १४२ ॥ शरासनकृतच्छायं चतुरंगं महाद्युतिः । अप्रमेयं बलं तस्य प्रतापपरिवारणम् ॥ १४३ ॥ सुरप्रासादसंकाशो मध्यस्तंभों तकध्वजः । शात्रवानीकदुः प्रेक्षो रेजे तस्य महारथः ॥ १४४ ॥ अनुमार्ग त्रिमूर्भोऽस्य ततो वह्निशिखो नृपः । सिंहविक्रमनामा च तथा दीर्घभुजश्रुतिः ॥ १४५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org