________________
पद्मपुराणम् ।
द्वयुत्तरशतं पर्व ।
शौर्यमानसमेताभिः कथाभिरात्तसक्तयोः । सुखेन गच्छतोरासीदंतराले तयोर्नदी ॥ १२० ॥ प्रवृत्तवेगमात्रेण नगरी ग्रहणैषिणोः । जाताऽसावंतरे तृष्णा सिद्धिप्रस्थितयोरिव ॥ १२१ ॥ सैन्यमावासितं तत्र परिश्रमसमागतम् । सुरसैन्यमिवोदारमुपनंदननिम्नगाम् ॥ १२२ ॥ अथ श्रुत्वा परानीकं स्थितमासन्नगोचरे । किंचिद्विस्मयमापन्नानूचतुः पद्मलक्ष्मणौ ॥ १२३ ॥ त्वरितं कः पुनर्मर्त्तुमयं वांछति मानवः । युद्धापदेशमाश्रित्य यदेत्यंतिकमावयोः ॥ १२४ ॥ ददौ नारायणश्चाज्ञां विराधितमहीभृते । क्रियतां साधनं सज्जं युद्धाय क्षेपवर्जितम् ।। १२५ ।। वृषनामप्लवंगादिकेतनाः खेचराधिपाः । क्रियतामुदितज्ञाना संप्राप्ते रणकर्मणि ।। १२६ ।।
२७०
ज्ञापयसीत्युक्त्वा विराधितखगेश्वरः । नृपान् किष्किंधनाथाद्यान् समादाय समुद्यतः १२७ दूतदर्शनमात्रेण सर्वे ते खेचरेश्वराः । अयोध्यानगरी प्राप्ता महासाधनसंगताः ।। १२८ ।। अथात्यंताकुलात्मानौ तदा सिद्धार्थ नारदौ । प्रभामंडलराजाय गत्वा ज्ञापयतां द्रुतम् ॥ १२९ ॥ श्रुत्वा स्वसुर्यथावृत्तं वात्सल्यगुणयोगतः । बभूव परमं दुःखी प्रभामंडलमंडितः || १३० ॥ विषादं विस्मयं हर्षं विभ्राणश्च त्वरान्वितः । आरुह्य मनसा तुल्यं विमानं पितृसंगतः ॥ १३१ ॥ समेतः सर्वसैन्येन किंकर्तव्यत्वविहलः । पौंडरीकपुरं चैत्र प्रस्थितः स्नेहनिर्भरः ॥ १३२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org