________________
पद्मपुराणम् ।
२६५
द्वयुत्तरशतं पर्व। साम्प्रोत्साहनशीलेन रणकौतुकिना परम् । त्वयेदं रचितं पश्य कुटुंबस्य विभेदनम् ॥ ५५ ॥ स जगाद न जानामि वृत्तान्तमहमीदृशम् । यतः संकथनं न्यस्तं पद्मलक्ष्मणगोचरम् ॥५६॥ एवं गतेऽपि मा भैषीर्नेह किंचिदसुंदरम् ! भविष्यतीति जानामि स्वस्थतां नीयतां मनः ।।५७॥ ततः समीपतां गत्वा तां कुमाराववोचताम् । अंबेदं रुद्यते कस्माद्वदाक्षेपविवर्जितम् ॥ ५८॥ प्रतिकूलं कृतं केन केन वा परिभाषितम् । दुर्मानसस्य कस्याद्य करोम्यसुवियोजनम् ।। ५९ ॥ अनौषधकरः कोऽसौ क्रीडनं कुरुतेऽहिना । कोऽसौ ते मानवः शोकं करोति त्रिदशोऽपि वा ६० कस्यासि कुपिता मातर्जनस्य गलितायुषः । प्रसादः क्रियतामंब शोकहेतुनिवेदने ॥ ६१ ॥ एवमुक्ता सती देवी जगाद विधृतास्रका । न कस्यचिदहं पुत्रौ कुपिता कमलेक्षणौ ॥ ६२ ॥ भवपितुर्मया ध्यातमद्य तेनाऽस्मि दुःखिता । रोदिमि प्रबलायातनयनोदकसंततिः ॥ ६३॥ उक्तवत्यामिदं तस्यां तदा श्रेणिक वीरयोः । सिद्धार्थो न पिताऽस्माकमिति बुद्धिः समुद्गता ६४ ततस्तावूचतुमोतः कोऽस्माकं जनकः क वा । इति पृष्टाऽगदत्सीता स्ववृत्तांतमशेषतः ॥६५॥ स्वस्य संभवमाचख्यौ रामसंभवमेव च । अरण्यागमनं चैव हृतिमागमनं तथा ॥ ६६ ॥ यथा देवर्षिणा ख्यातं तच्च सर्वं सविस्तरम् । वर्त्ततेऽद्यापि कः कालो वृत्तांतस्य निगृहने ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org