________________
पद्मपुराणम् ।
२६४
बुत्तरशतं पर्व। बहवो जनवादस्य निराकरणहेतवः । संति तत्र किमित्येवं विद्धां किल चकार सः ॥ ४२ ॥ अनंगलवणोऽवोचद्विनीता नगरी मुने । कियद्रं ततोऽवोचदवद्धारगतिप्रियः ॥४३॥ योजनानामयोध्या स्यादितः षष्टयधिकं शतम् । यस्यां स वर्तते रामः शशांकविमलप्रियः ४४ कुमारावूचतुर्यावांस्तं निर्जेतुं किमास्यते । महीकुटीरके ह्यस्मिन् कस्यान्यस्य प्रधानता ॥ ४५ ॥ ऊचतुवेज्रजंघं च मामास्मिन्वसुधातले । सुह्मसिंधुकलिंगाद्या राजानः सर्वसाधनाः ॥ ४६॥ आज्ञाप्यतां यथा क्षिप्रमयोध्यागमनं प्रति । सज्जीभवत सर्वेण रणयोग्येन वस्तुना ॥४७ ॥ संलक्ष्यंतां महानागा विमदा मदशालिनः । समुद्भूतमहाशब्दा वाजिनो वायुरंहसः॥४८॥ योधाः कटकविख्याताः समरादपलायिनः । निरीक्ष्यन्तां सुशस्त्राणि माज्यतां कंटकादिकम् ४९ तूर्यनादा प्रदाप्यन्तां शंखनिःस्वानसंगताः । महाहवसमारंभसंभाषणविचक्षणाः ॥५०॥ एवमाज्ञाप्य संग्रामसमानंदसमागतम् । आधाय मानसे धीरौ महासम्मदसंगतौ ॥ ५१ ॥ शक्राविव विनिश्चित्य त्रिदशान् धरणीपतीन् । महाविभवसंपन्नौ यथास्वं सस्थतुः सुखम् ॥५२॥ ततस्तयोः समाकर्ण्य पद्मनाभाभिषेणनम् । उत्कंठा विभ्रती तुंगां सरोद जनकात्मजा ॥ ५३ ॥ ततः सीतासमीपस्थं सिद्धार्थो नारदं जगौ । इदमीहक्तयाऽऽरब्धं कथं कार्यमशोभनम् ॥५४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org