________________
पद्मपुराणम् ।
२६३
युत्तरशतं पर्व ।
adisकुश जगादास मुने रामेण जानकी । कस्य हेतो परित्यक्ता वद वांछामि वेदितुम् २९ ततः कथितनिःशेषवृत्तान्तमिदमभ्यधात् । तद्गुणाकृष्टचेतस्को देवर्षिः सात्रवीक्षणः ॥ ३०॥ विशुद्धगोत्र चारित्रहृदया गुणशालिनी । अष्टयोषित्सहस्राणामग्रणीः सुविचक्षणा ॥ ३१ ॥ सावित्रीं सह गायत्रीं श्रियं कीति धृतिं द्वियम् । पवित्रत्वेन निर्जित्य स्थिता जैनश्रुतेः समा ३२ नूनं जन्मान्तरोपात्तपापकर्मानुभावतः । जनापवादमात्रेण त्यक्ताऽसौ विजने वने ॥ ३३ ॥ दुर्लोकधर्मभानूक्तिदीधितिप्रतितापिता । प्रायेण विलयं प्राप्ता सती सा सुखवर्द्धिता ॥ ३४ ॥ सुकुमाराः प्रपद्यन्ते दुःखमप्यनुकारणात् । म्लायंति मालतीमालाः प्रदीपालोकमात्रतः ।। ३५ ।। अरण्ये किं पुनर्भीमे व्यालजालसमाकुले । वैदेही धारयेत्प्राणानसूर्यपश्यलोचना || ३६ ।। जिह्वा दुष्टभुजंगीव संदूष्यानागसं जनम् । कथं न पापलोकस्य व्रजत्यवनिवर्त्तनम् ॥ ३७ ॥ आर्जवादिगुणश्लाघ्यामत्यन्तविमलां सतीम् । अपोद्य तादृशीं लोको दुःखं प्रेत्येह चाश्नुते ॥ ३८ ॥ अथवा स्वोचिते नित्यं कर्मण्याश्रितजागरे । किमत्र भाष्यतां कस्य संसारोऽत्र जुगुप्सितः ||३९|| इत्युक्त्वा शोकभारेण समाक्रांतमना मुनिः । न किंचिच्छक्नुवन्वक्तुं मौन योगमुपाश्रितः||४०|| अथकुशो विहस्योचे ब्रह्मन कुलशोभनम् । कृतं रामेण वैदेहीं मुंचता भीषणे वने ॥ ४१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org