________________
पद्मपुराणम् ।
व्युत्तरशतं पर्व । राम इत्यादितस्तेषामभिरामः समंततः । आद्यः सर्वश्रुतज्ञोऽपि विश्रतः सर्वविष्टपे ॥१६॥ लक्ष्मणेनानुजेनासौ सीतया च द्वितीयया । जनकस्य नरेंद्रस्य सुतयाऽत्यंतभक्तया ॥ १७॥ जानकं पालयत्सत्यं कृत्वाऽयोध्यां बितानिकाम् । छद्मस्थः पर्यटन क्षोणींप्राविक्षदंडकं वनम् ॥१८॥ स्थानं तत्र परं दुर्ग महाविद्याभृतामपि । सोऽध्यास्त स्त्रैणवृत्तान्तं जातं चन्द्रनखाभवम् ॥ १९॥ संग्रामे वेदितुं वार्ता पद्मोऽगादनुजस्य च । दशग्रीवेण वैदेही हृता च छलवर्त्तिना ॥२०॥ ततो महेन्द्रकिष्किन्धश्रीशैलमलयश्वराः । नृपा विराधिताद्याश्च प्रधानाः कपिकेतवः ॥ २१ ॥ महासाधनसंपन्ना महाविद्यापराक्रमाः। रामगुणानुरागेण पुण्येन च समाश्रिताः ॥ २२॥ लंकेश्वरं रणे जित्वा वैदेही पुनराहृता । देवलोकपुरीतुल्या विनीता च कृता खगैः ।। २३ ।। तत्र तो परमैश्वर्यसेवितौ पुरुषोत्तमौ । नागेंद्राविव मोदेते सत्सुखं रामलक्ष्मणौ ॥ २४ ॥ रामो वां न कथं ज्ञातो यस्य लक्ष्मीधरोऽनुजः । चक्र सुदर्शनं यस्य मोघतापरिवर्जितम् ॥२५॥ एकैकं रक्ष्यते यस्य तदेकगतचेतसा । रत्नं देवसहस्रेण राजराजस्य कारणम् ॥ २६॥ संत्यक्ता जानकी येन प्रजानां हितकाम्यया । तस्य रामस्य लोकेऽस्मिन्नास्ति कश्चिदवेदकः२७ आस्तां तावदयं लोकः स्वर्गेऽप्यस्य गुणैः कृताः । मुखरा देवसंघातास्तत्परायणचेतसः ॥ २८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org