________________
पद्मपुराणम् ।
२६१
युत्तरशतं पर्व। दर्शनेऽवस्थितौ वीरौ प्राप ताभ्यां च पूजितः । आसनादिप्रदानेन गृहस्थमनिवेषभृत् ।। ३ ॥ ततः सुखं समासीनः परमं तोषमुद्दहन् । अब्रवीत्ताववद्धारः कृतस्निग्धनिरीक्षणः॥४॥ रामलक्ष्मणयोर्लक्ष्मीर्यादृशी नरनाथयोः । तादृशी सर्वथा भूयादचिराद्भवतोरपि ॥ ५ ॥ ततस्तावूचतुः कौ तौ भगवन् रामलक्ष्मणौ । कीदृग्गुणसमाचारौ कस्य वा कुलसंभवौ ॥६॥ ततो जगाववद्धारः कृत्वा विस्मितमानसम् । स्थिरमूर्तिः क्षणं स्थित्वा भ्रामयन् करपल्लवम् ॥७॥ भुजाभ्यामुत्क्षिपेन्मेरुं प्रतेरनिम्नगापतिम् । नरो न तग्गुणान् वक्तुं समर्थः कश्चिदेतयोः ॥८॥ अनंतेनाऽपि कालेन वदनैरन्तवर्जितैः । सकलोऽपि न लोकोऽयं तयोर्वक्तुं गुणान् क्षमः ॥९॥ इदं तद्गुणसंप्रश्नप्रतीकारसमाकुलम् । हृदयं कंपमानं मे पश्यतां जातकौतुकौ ॥ १० ॥ तथापि भवतोवोक्यात्स्थूलोचयसमाश्रयात् । वदामि तद्गुणं किंचिच्छृणुतं पुण्यवद्धनम् ॥११॥ अस्तीक्ष्वाकुकुलव्योमसकलामलचंद्रमाः । नाम्ना दशरथो राजा दुवृत्तें धनपावकः ॥ १२ ॥ अधितिष्ठन्महातेजोमूर्तिरुत्तरकोसलम् । सवितेव प्रकाशत्वं धत्ते यः सर्वविष्टपे ॥ १३ ॥ पुरुषाद्रीन्द्रतो यस्मानिःसृताः कीर्तिसिंधवः । उदन्वत्संगता वीध्रा ह्लादयंत्यखिलं जगत् ॥१४॥ तस्य राज्यमहाभारवहनक्षमचेष्टिताः । चत्वारो गुणसंपन्नास्तनया सुनया इव ॥ १५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org