________________
पद्मपुराणम् ।
२६०
दधुत्तरशतं पर्व ।
आरात्पुत्रौ समालोक्य कृतकृत्यावुपागतौ । निममज्जेव वैदेही सिद्धावभृतवारिणि ॥ १०३ ॥ विरचितकरपुटकमलौ जननीमुपगम्य सादरौ परमम् । नेमतुरवनतशिरसौ सैन्यरजोधूसरौ वीरौ ॥ १०४ ॥ तनयस्नेहप्रवणा पद्मप्रमदा सुतौ परिष्वज्य । करतलकृतपरमर्शा शिरसि निनिक्षेोत्तमानंदा ॥ १०५ ॥ जननीं जनिता पुनरभिनंद्य परं प्रसादमानयत्या । रविचन्द्राविव लोकव्यवहारकरौ स्थितौ योग्यम् ।। १०६ ।।
इत्यार्षे श्रीरविषेणाचार्यप्रोक्ते श्रीपद्मपुराणे लवणांकुशदिग्विजय कीर्त्तनं नामैका धिकशतं पर्व ॥ १०१ ॥
अथ ह्युत्तरशतं पर्व |
एवं तौ परमैश्वर्य प्राप्तावुत्तममानवौ । स्थितावाज्ञां प्रयच्छन्तावुन्नतानां महीभृताम् ॥ १ ॥ तदा कृतांतवक्त्रं तु नारदः परिपृष्टवान् । जानकीत्यजनोद्देशं दुःखी भ्राम्यन् गवेषकः ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org