________________
पद्मपुराणम् ।
२५९
एकाधिकशतं पर्व ।
राष्ट्राद्यधिकृतैः पूजां प्राप्यमाणौ च भूयसीम् । समीपीभावतां प्राप्तौ पुंडरीकस्य पार्थिवैः ॥९०॥ ततः सप्तमभूपृष्ठं प्रासादस्य समाश्रिता । वृता परमनारीभिः सुखासनपरिग्रहा ।। ९९ ।। तरलच्छातजीमूत परिधूसरमुत्थितम् । रजःपटलमद्राक्षीदप्राक्षीश्च सखीजनम् ॥ ९२ ॥ किमिदं दृश्यते सख्यो दिगाक्रमणचंचलम् । ऊचुस्ता देवि सैन्यस्य रजश्चक्रमिदं भवेत् ॥ ९३ ॥ तथा हि पश्य मध्येsस्य ज्ञायते स्वच्छवारिणः । अश्वीयं मकराणां वा प्लवमान कदंबकम् ||१४|| नूनं स्वामिनि सिद्धार्थौ कुमारावागताविमौ । तथा ह्येतौ प्रदृश्येते तावेव भुवनोत्तमौ ॥ ९५ ॥ आसीदेवं कथा यावत्सीतादेव्या मनोहरा । तावदग्रेसराः प्राप्ता नरा इष्टनिवेदिनः ॥ ९६ ॥ उपशोभा ततः पृथ्वी समस्तां नगरे कृता । लोकेनादरयुक्तेन विभ्रता तोषमुत्तमम् ॥ ९७ ॥ प्राकारशिखरावत्यामुच्छ्रिता विमलध्वजाः । मार्गदेशाः कृता दिव्यतोरणासंगसुंदराः ॥ ९८ ॥ आगुल्फं पूरितो राजमार्गः पुष्पैः सुगंधिभिः । चारुवंदनमालाभिः शोभमानः पदे पदे ॥ ९९|| स्थापिता द्वारदेशेषु कलशाः पल्लवाननाः । पदवस्त्रादिभिः शोभा कृता चापणवर्त्मनि ॥ १०० ॥ विद्याधरैः कृतं देवैराहोस्वित्पद्मया स्वयम् । पौंडरीकपुरं जातमयोध्यासमदर्शनम् ॥ १०१ ॥ दृष्ट्रा संप्रविशतौ तौ महाविभवसंगतौ । आसीनगरनारीणां लोको दुःशक्यवर्णनः ॥ १०२ ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org