SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ काधिक पर्व | भाषकुंतलकालांबुनंदिनंदनसिंहलान् । शलभाननलांचीलान्भीमान् भूतरवादिकान् ॥ ७७ ॥ नृपान् वश्यत्वमानीय सिंधोः कूलं परं गतौ । परार्णवतटांतस्थान् चक्रतुः प्रणतान्नृपान् ||७८|| पुरखेटमटंबेन्द्रा विषयादीवराश्च ये । वशत्वे स्थापितास्ताभ्यां कांश्चित्तान् कीर्त्तयामि ते ।।७९।। ते जनपदाः केचिदार्या म्लेच्छास्तथा परे । विद्यमानद्वयाः केचिद्विविधाचारसंमताः ॥ ८० ॥ atrat यवनाः कक्षावारवत्रिजटा नटाः । शककेरलनेपाला मालवारुलशर्वराः ॥ ८१ ॥ वृषाणवैद्यकाश्मीरा हिंडिवावष्टवर्वराः । त्रिशिरः पारशैलाश्च गौशीलोसीनरात्मकाः ॥ ८२ ॥ सूर्यारकाः सनतश्च खशा विध्याः शिखापदाः । मेखलाः शूरसेनाच बाल्हीकोलूककोसलाः ८३ दरीगांधारसौवीराः पुरीकौबेरकोहराः । अंधकालकालिंगाद्या नानाभाषा पृथग्गुणाः || ८४ ॥ विचित्ररत्नवस्त्राद्या बहुपादपजातयः । नानाकरसमायुक्ता हेमादिवसुशालिनः ॥ ८५ ॥ 'देशानामेवमादीनां स्वामिनः समराजिरे । जिताः केचिद्गताः केचित्प्रतापादेव वश्यताम् ||८६ ॥ ते महाविभवैर्युक्ता देशमाजोऽनुरागिणः । लवणांकुशयोरिच्छां कुर्वाणा बभ्रमुर्महीम् ॥ ८७ ॥ प्रसाद्य पृथिवीमेतामथ तौ पुरुषोत्तमौ । नानाराजसहस्राणां महतामुपरि स्थितौ ॥ ८८ ॥ रक्षन्तौ विषयान्सम्यङ्नानाचारुकथारतौ । पौंडरीकपुरं तेन प्रस्थितौ पुरुसम्मदौ ॥ ८९ ॥ पद्मपुराणम् । Jain Education International २५८ For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy