________________
पद्मपुराणम् ।
२५७
एकाधिकशतं पर्व।
वज्रजंघप्रधानेषु ततः प्राप्तेषु राजसु । ससाक्षिकाऽभवत्प्रीतिः पृथुना सह वीरयोः ॥ ६४ ॥ प्रणाममात्रतः प्रीता जायते मानशालिनः । नोन्मूलयंति नधोघा वेतसान् प्रणतात्मकान् ॥६५॥ ततस्तौ सुमहाभूत्या पृथुना पृथिवीपुरम् । प्रवेशितौ समस्तस्य जनस्यानंदकारिणौ ॥ ६६ ॥ मदनांकुशवीरस्य पृथुना परिकल्पिता । कन्या कनकमालाऽसौ महाविभवसंगता ॥ ६७ ।। अत्र नीत्वा निशामेकां करणीयविचक्षणौ । निर्गतौ नगरी जेतुं समस्तां पृथिवीमिमाम् ॥६८॥ सुझांगमगधैर्वगैः पोदनेशादिभिस्तथा । कृतौ लोकाक्षनगरं गंतुमेतौ समुद्यतौ ॥ ६९ ॥ आक्रामंतौ सुखं तस्य संबद्धान् विषयान् बहून् । अभ्यर्णत्वं परिप्राप्तौ तौ महासाधनान्वितौ ७० कुबेरकान्तनामानं राजानं तत्र मानिनम् । समवक्षोभतां नागं पक्षाविव गरुन्मतः ॥ ७१ ॥ चतुरंगाकुले भीमे परमे समरांगणे । जित्वा कुबेरकांतं तौ पूर्णमानवलौ भृशम् ।। ७२ ॥ सहौनरनाथानामावृतौ वश्यतां गतः । कृच्छ्राधिगमने पानलंपाकविषयं गतौ ॥ ७३ ॥ एककर्ण विनिर्जित्य राजानं तत्र पुष्कलम् । गतौ मार्गानुकूलत्वान्नरेंद्रौ विजयस्थलीम् ।। ७४ ॥ तत्र भ्रातृशतं जित्वा समालोकनमात्रतः । गतौ गंगां समुत्तीर्य कैलासस्योत्तरी दिशम् ॥७॥ तत्र नंदनचारूणां देशानां कृतसंगमौ । पूजमानौ नरश्रेष्ठेनानोपायनपाणिभिः ॥७६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org