________________
पद्मपुराणम् ।
२५६
एकाधिकशतं पर्व। निमेषेण पराभग्नं सैन्यमुन्मत्तसन्निभम् । द्विपयुथं परिभ्रान्तैः सिंहवित्रासितं यथा ॥ ५१ ॥ ततोऽसौ क्षणमात्रेण पृथुराजस्य वाहिनी । लवणांकुशसूर्येषुमयूखैः परिशोषिता ॥५२॥ कुमारयोस्तयोरिच्छामंतरेण भयार्दिताः । अर्कतूलसमूहाभा नष्टा शेषा यथा ककुयू ॥५३ ॥ असहायो विषण्णात्मा पृथुभंगपथे स्थितः । अनुधाव्य कुमाराभ्यां सचापाभ्यामितीरितः ॥५४॥ नरखेट पृथो व्यर्थ काद्यापि प्रपलाप्यते । एतौ तावागतावावामज्ञातकुलशीलकौ ॥ ५५ ॥ अज्ञातकुलशीलाभ्यामावाभ्यां त्वं ततोऽन्यथा । पलायनमिदं कुर्वन् कथं न पसेऽधुना ॥५६॥ ज्ञापयावोऽधुनात्मीये कुलशीले शिलीमुखैः । अवधानपरस्तिष्ठ बलाद्वा स्थाप्यसेऽथवा ॥५७ ॥ इत्युक्ते विनिवृत्त्यासौ पृथुराह कृतांजलिः । अज्ञानजनितं दोष वारौ मे क्षन्तुमर्हथ ॥ ५८ ॥ माहात्म्यं भवदीयं मे नाऽऽयातं मतिगोचरम् । भास्करीयं यथा तेजः कुमुदप्रचयोदरम् ॥५९॥ ईगेर हि धीराणां कुलशीलनिवेदनम् । शस्यते न तु भारत्या तद्धि संदेहसंगतम् ॥ ६० ॥ अरण्यदाहशक्तस्य पावकस्य न को जनः । ज्वलनादेव संभृति मूढोऽपि प्रतिपद्यते ।। ६१॥ भवंती परमो धीरौ महाकुलसमुद्भवौ । अस्माकं स्वामिनी प्राप्ती यथेष्टसुखदायिनौ ॥ ६२ ॥ एवं प्रशस्यमानौ तौ कुमारौ नतमस्तको । जातौ निर्वासिताशेषकोपौ शांतमनोमुखौ ॥ ६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org