________________
पद्मपुराणम् ।
एकाधिकशतं पर्व ।
रथौ ततः समारुह्य परमौ जविवाजिनौ । संपूर्णो विविधैरस्त्रैरुपरि प्रस्थितौ पृथोः ॥ ३८ ॥ तौ महासैन्यसंपन्नौ चापन्यस्तसहायक । मूत्येव संगतिं प्राप्तौ समुद्येोगपराक्रमौ ॥ ३९ ॥ परमोदारचेतस्कौ पुरुसंग्रामकौतुकौ । पंचभिर्दिवसैः प्राप्तौ वज्रजंधं महोदयौ ॥ ४० ॥ ततः शत्रुबलं श्रुत्वा परमोद्योगमंतिकम् । निरैन्महाबलांतस्थः पृथिवीनगरात्पृथुः ॥ ४१ ॥ भ्रातरः सुहृदः पुत्रा मातुला मातुंलांगजाः । एकपात्रभुजोऽन्ये च परमप्रीतिसंगताः ॥ ४२ ॥ सुह्मांगा वंगमगधप्रभृतिक्षितिगोचराः । समंतेन महीपालाः प्रस्थिताः सुमहाबलाः ॥ ४३ ॥ रथाश्वनागपादाताः कटकेन समावृताः । वज्रजंघं प्रति क्रुद्धाः प्रययुस्ते सुतेजसः ॥ ४४ ॥ रथेमतुरगस्थानं श्रुत्वा तूर्यस्वनान्वितम् । सामंता वज्रजंघीयाः सन्नद्धा योद्धुमुद्यताः ॥ ४५ ॥ प्रत्यासन्नं समायाने सेनाऽस्य द्वितये ततः । परानीकं महोत्साहो प्रविष्टौ लवणांकुशौ ॥ ४६ ॥ अतिक्षिप्रपरावर्त्ती तावुदाररुषाविव । आरेभाते परिक्रीडां परसैन्यं महाहृदं ॥ ४७ ॥ इतस्ततश्व तौ दृष्टादृष्ट विद्युतोपमौ । दुरालक्ष्यत्वमापन्नौ परासोढपराक्रमौ ॥ ४८ ॥ गृह्णन्तौ संदधानो वा तौ वा शिलीमुखान् । नादृश्येतामदृश्यंत केवलं निहताः परे ॥ ४९ ॥ बिभिन्नैः विशिखैः क्रूरैः पतितैः सह वाहनैः । महीतलं समाक्रांतं कृतमत्यन्तदुर्गमम् ॥ ५० ॥
Jain Education International
२५५
For Private & Personal Use Only
www.jainelibrary.org