________________
पद्मपुराणम् ।
२५४
एकाधिकशतं पर्व । पितुराज्ञां समाकर्ण्य राजपुत्रास्त्वरान्विताः । भेरीशंखादिनिःस्वानं समाहार्थमदापयन् ॥ २५॥ ततः कोलाहलस्तुंगो महान् संक्षोभकारणः । पौंडरीकपुरे जातो घूर्णमानार्णवोपमः ॥ २६ ॥ तावदश्रुतपूर्व तं श्रुत्वा सन्नाहनिःस्वतम् । किमेतदिति पार्श्वस्थानप्राष्टां लवणांकुशौ ॥ २७॥ स्वनिमित्तं ततः श्रुत्वा वृत्तांतं तत्समंततः । वैदेहीनंदनौ गंतुमुद्यतौ समरार्थिनौ ॥ २८ ॥ अतित्वरापरीतौ तौ पराभूत्युद्भवासहौ । अपि नासहतां यानमभिव्यक्तमहायुती ॥ २९ ॥ तो वारयितुमुधुक्ता वज्रजंघस्य सूनवः । सर्वमन्तःपुरं चैव परिवर्गश्च यत्नतः ॥ ३० ॥ अपकर्णिततद्वाक्यौ जानकी वीक्ष्य पुत्रको । जगाद तनयस्नेहपरिद्रवितमानसा ॥३१॥ बालको नैष युद्धस्य भवतोः समयः समे । न हि वत्सौ नियुज्यते महारथधुरामुखे ॥ ३२ ॥ ऊचतुस्तौ त्वया मातः किमेतदिति भाषितम् । किमत्र वृद्धकैः कार्य वीरभोज्या वसुंधरा॥३३॥ कियता देहमारेण ज्वलनस्य प्रयोजनम् । दिधक्षतो महाकक्ष स्वभावेनेह कारणम् ॥ ३४ ॥ एवमुद्गतवाक्यौ तौ तनयो वीक्ष्य जानकी । बाष्पं मिश्ररसोत्पन्न नेत्रयोः किंचिदाश्रयत् ॥३५।। सुस्नातौ तौ कृताहारौ ततोऽलंकृतविग्रहौ । प्रणम्य प्रयतौ सिद्धान् वपुषा मनसा गिरा ॥३६॥ प्रणिपत्य सवित्री च समस्तविधिपंडितौ । उपयातावगारस्य बहिः सत्तममंगलैः ॥ ३७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org