________________
पद्मपुराणम् ।
२५३
एकाधिकशतं पर्व ।
कर्तुं तथापि ते युक्तो निग्रहः पापभाषिणः । परेण प्रेरितं केन यंत्रं हंतु विहन्यते ॥ १२ ॥ किंचित्कर्तुमशक्तस्य रजःपातसमात्मनः । अपाकरणमात्रेण मया ते दूत सत्कृतम् ।। १३ ।। कुलं शीलं धनं रूपं समानत्वं बलं वयः । देशो विद्यागमश्चेति यद्यप्युक्ता वरे गुणाः ॥ १४ ॥ तथापि तेषु सर्वेषु संतोऽभिजन मेककम् । वरिष्ठमनुरुध्यं ते शेषेषु तु मनः समम् ॥ १५ ॥ स च न ज्ञायते यस्य वरस्य प्रथमो गुणः । कथं प्रदीयते तस्मै कन्या मान्या समंततः ॥ १६ ॥ निस्त्रपं भाषमाणाय तस्मै सुप्रतिकूलनम् । दातुं युक्तं कुमारीं न कुमारीं तु ददाम्यहम् ॥ १७ ॥ इत्येकान्तपरिध्वस्तवचनो निरुपायकः । हूतः श्रीवत्रजंघाय गत्वाश्वस्थां न्यवेदयत् ॥ १८ ॥ ततो गत्वार्धमध्वानं स्वयमेव प्रपन्नवान् । अयाचत महादूतवदनेन पृथुं पुनः ॥ १९ ॥ अलब्ध्वाऽसौ ततः कन्यां तथापि जनितादरः । पृथोर्ध्वंसयितुं देशं क्रोधनुन्नः समुद्यतः ||२०|| पृथुदेशावधेः पाता नाम्ना व्याघ्ररथो नृपः । वज्रजंघेन संग्रामे जित्वा बंधनमाहृतः ॥ २१ ॥ ज्ञात्वा व्याघ्ररथं बद्धं सामंतं सुमहाबलम् । देशं विनाशयंतं च वज्रजंघं समुद्यतम् ॥ २२ ॥ पृथुः सहायता हेतोः पोदनाधिपतिं नृपम् । मित्रमाहाययामास यावत्परमसैनिकम् ॥ २३ ॥ तावत्कुलिशजंन पौंडरीकपुरं द्रुतम् । समाहाययितुं पुत्रान्प्रहितो लेखवान्नरः ॥ २४ ॥
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org