________________
पद्मपुराणम् ।
२५२
एकाधिकशतं पर्व। अथैकाधिकशतं पर्व। ततो दारक्रियायोग्यौ दृष्ट्वा तावतिसुंदरौ । वज्रजंघो मतिं चक्रे कन्यान्वेषणतत्पराम् ।। १ ।। लक्ष्मीदेव्याः समुत्पन्नां शशिचूलाभिधानकाम् । द्वात्रिंशत्कन्यकायुक्तामाद्यस्याकल्पयत्सुताम् ॥२॥ विवाहमंगलं द्रष्टुमुभयोर्युगपन्नृपः । अभिलष्यन् द्वितीयस्य कन्यां योग्यां समन्ततः ॥ ३ ॥ अपश्यन्मनसा खेदं परिप्राप्त इवोत्तमम् । सस्मार सहसा सद्यः कृतार्थत्वमिवावजत् ॥ ४ ॥ पृथिवीनगरेशस्य राज्ञोऽस्ति प्रवरांगजा । शुद्धा कनकमालाख्याऽमृतवत्यंगसंभवा ॥ ५॥ रजनीपतिलेखेव सर्वलोकमलिमम्लुचा । श्रियं जयति या पद्मवती पअविवार्जिता ॥ ६॥ या साम्यं शशिचूलायाः समाश्रितवती शुभा । इति संचित्य तद्धेतोद्भूतं प्रेषितवान्नृपः ॥ ७ ॥ पृथिवीपुरमासाद्य स क्रमेण विचक्षणः । जगाद कृतसंमानो राजानं पृथुसंज्ञगम् ॥ ८॥ तावदेवेक्षितो दृष्टया दूतो राज्ञा विशुद्धया । कन्यायाचनसंबंधं यावद् गृह्णाति नो वचः ॥९॥ उवाच वचनं दूतः काचिदप्यस्ति दृषिता । यतो भवान् पराधीनः परवाक्यानुवादकत् ॥१०॥ निरुष्माणश्चलात्मानो बहुभंगसमाकुलाः । जलौघा इव नीयंते यथेष्टं हि भवद्विधाः ॥ ११ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org