________________
पद्मपुराणम्।
शतं पर्व । गृह्णीयातामिषु मुक्तमपि वेगाददूरतः । मकरग्राहनकायैः कृतक्रीडी महाजले ॥ ७७ ॥ श्रमसौख्यमसंप्राप्तौ मत्तैरपि महाद्विपैः । भयादिव तनुच्छायात्स्खलितार्ककरोत्करौ ।। ७८ ।। धर्मतः सम्मितौ साधोरर्ककीर्तिश्च सत्त्वतः । सम्यग्दर्शनतोऽगस्य दानाच्छीविजयस्य च ॥७९॥ अयोध्यावभिमानेन साहसान्मधुकैटभो । महाहवसमुद्योगादिन्द्रजिन्मेघवाहनौ ।। ८० ॥ गुरुशुश्रूषणोद्युक्तौ जिनेश्वरकथारतौ । शत्रूणां जनितत्रासौ नाममात्रश्रुतेरपि ॥ ८१ ॥
एवं तौ गुणरत्नपर्वतवरी विज्ञानपातालिनी
लक्ष्मीश्रीद्युतिकीर्तिकांतिनिलयो चित्तद्विपेद्रांकुशौ । सौराज्यालयभारधारणदृढस्तंभौ महीभास्करी
संवृत्तौ लवणांकुशौ नरवरौ चित्रककर्माकरौ ॥ ८२ ॥ धीरी प्रपौंडनगरे रेमाते तो यथेप्सितं नरनागौ ।
लज्जितरवितेजस्को हलधरनारायणौ यथायोग्यम् ॥ ८३ ॥ इति श्रीरविषेणाचार्यप्रोक्ते पद्मपुराणे लवणांकुशोद्भवाभिधानं नाम शतसंख्यं पर्व ॥ १० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org