SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । २५० सतं पर्व । सच्छत्रानपि निश्छायान्कुर्वाणो धरणीक्षितः । मुखेन मधु मुंचंतो प्रसन्नौ सत्सुसेविती ॥ ६४ ॥ दुष्टभूपालवंशानामप्यनासन्नवर्तिनाम् । कुर्वाणावूष्मणा ग्लानिं संप्राप्तसहजन्मना ।। ६५ ॥ शस्त्रसंस्तवनश्याममुद्वहंतौ करोदरम् । शेषराजप्रतापानिपरिनिर्वापणादिव ॥ ६६ ॥ धीरैः कार्मुकनिःस्वानर्योग्यकाले समुद्गतैः । आलपंताविवासन्नाभोगाः सकलदिग्वधूः ॥ ६७ ॥ ईदृशो लवणस्तागीदृशस्तादृशोऽकुशः । इत्यलं विकसच्छन्दप्रादुर्भावौ शुभोदयौ ।। ६८॥ नवयौवनसंपन्नौ महासुंदरचेष्टितौ । प्रकाशतां परिप्राप्तौ धरण्यां लवणांकुशौ ॥ ६९ ॥ अभिनंद्यौ समस्तस्य लोकस्योत्सुकताकरौ । पुण्येन घटितात्मानौ सुखकारणदर्शनौ ॥ ७० ॥ युवत्यास्याः कुमुद्वत्याः शरत्पूर्णेन्दुतां गतौ । वैदेहीहृदयानंदमयजंगममंदरौ ॥ ७१ ॥ कुमारादित्यसंकाशौ पुंडरीकनिभेक्षणौ । द्वीपदेवकुमाराभौ श्रीवत्सांकितवक्षसौ ॥ ७२ ॥ अनंतविक्रमाधारौ भवांभोधितरस्थितौ । परस्परमहाप्रेमबंधनप्रवणीकृतौ ॥ ७३ ।।। मनोहरणसंसक्तौ धर्ममार्गस्थितावपि । वक्रतापरिनिमुक्तौ कोटिस्थितगुणावपि ।। ७४ ॥ विजित्य तेजसा भानु स्थितौ कात्या निशाकरम् । ओजसा त्रिदशाधीशं गांभीर्येण महोदधिम् ७५ मेरुं स्थिरत्वयोगेन क्षमाधर्मेण मेदिनीम् । शौर्येण मेघनिःस्वानं गत्या मारुतनंदनम् ॥ ७६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy