________________
पद्मपुराणम् ।
२४९
शतं पर्व । भजतां संस्तवं पूर्व गुणानामागमः सुखम् । खेदोऽवतरतां कोसो हंसानां मानसं इदम् ॥५१॥ उपदेशं ददत्पात्रे गुरुति कृतार्थताम् । अनर्थकः समुद्योतो रवः कौशिकगोचरः ॥ ५२ ॥ स्फुरद्यशः प्रतापाभ्यामाकान्तभुवनावथ । अभिरामदुरालोको शीततिग्मकराविव ॥ ५३ ।। व्यक्ततेजोबलावनिमारुताविव संगतौ । शिलादृढवपुःस्कंधौ हिमविंध्याचलाविव ॥ ५४ ॥ महावृषौ यथा कांतयुगसंयोजनोचितौ । धर्माश्रमाविवात्यंतरमणीयौ सुखावहौ ॥ ५५ ॥ पूर्वोपरककुम्भागाविव लोकाभिलाक्षितौ । उदयास्तमयाधाने सर्वतेजस्विनां क्षमौ ॥ ५६ ॥ अभ्यार्णवसंरोधसंकटे कुकुटीरके । तेजसः परिनिंदन्ती छायामपि पराङ्मुखीम् ॥ ५७॥ अपि पादनखस्थेन प्रतिबिंबेन लज्जितौ । केशानामपि भंगेन प्राप्नुवंतावशं परम् ॥ ५८ ॥ चूडामणिगतेनापि छत्रेणानेन सत्रपौ । अपि दर्पणदृष्टेन प्रतिपुंसोपतापिनौ ॥ ५९ ॥ अंभोधरधृतेनाऽपि धनुषा कृतकोपनौ । अनानमद्भिरालेख्यपार्थिवैरपि खेदितौ ॥ ६ ॥ स्वल्पमंडलसंतोषसंगतस्य खेरपि । अनादरेण पश्यन्तौ तेजसः प्रतिघातकम् ॥ ६१ ॥ भिदंतौ बलिनं वायुमप्यवीक्षितविग्रहम् । हिमवत्यपि सामर्षो चमरीवालवीजिते ।। ६२ ॥ शंखैः सलिलनाथानामपि खेदितमानसौ । प्रचेतसमपीशानममृष्यंतावुदन्वताम् ॥ ६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org