SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । सप्ततितम पर्व। प्रीतिकरो दृढरथः समुन्नतबलस्तथा । नंदनः सर्वदो दुष्टः सिंहः सर्वप्रियोऽनलः ॥ १७ ॥ नीलः सागरनिस्वानः ससुतः पूर्णचंद्रमाः । स्कंदश्चन्द्रमरीचिश्च जांबवः संकटस्तथा ॥ १८ ॥ समाधिबहुल: सिंहः कटिरिन्द्रांशनिर्बलः । तुरंगशतमेतेषां प्रत्येकं योजितं रथे ॥१९॥ शेषाः सिंहवराहेभव्याघ्रयानैमनोजवैः । पदातिपटलांतस्थाः प्रस्थिताः परमौजसः ॥ २० ॥ नानाचिह्नातपत्रास्ते नानातोरणलांछनाः । चित्राभिर्वैजयंतीभिर्लक्षिता गगनांगणे ॥ २१ ॥ सैन्यार्णवसमुद्भूतमहागंभीरनिःस्वनाः । आस्तृणाना दिशो मानमुद्वहंतः समुन्नताः ॥ २२ ॥ प्राप्ता लंकापुरीवाह्योद्देशमेवमचिंतयन् । आश्चर्य किमिदं लंका निश्चिंतयमवस्थिता ॥ २३ ।। स्वस्थो जनपदोऽमुष्यां सुचेताः परिलक्ष्यते । अवृत्तपूर्वसंग्रामा इव चास्यां भटाः स्थिताः॥२४॥ अहो लंकेश्वरस्येदं धैर्यमत्यंतमुन्नतम् । गंभीरत्वं तथा सत्वं श्रीप्रतापसमुन्नतम् ॥ २५ ॥ बंदिग्रहणमानीतः कुंभकर्णो महाबलः । इंद्रजिन्मेघनादश्च दुर्धरैरपि दुर्धराः ॥ २६ ॥ अक्षाद्या बहवः शूरा नीता निधनमाहवे । न तथापि विभोः शंका काचिदस्योपजायते ॥२७॥ इति संचित्य कृत्वा च समालापं परस्परम् । विस्मयं परमं प्राप्ताः कुमाराः शंकिता इव ॥२८॥ अथ वैभीषणिक्यं ख्यातो नाना सुभूषणः । जगाद धैर्यसंपन्नं निर्धान्तं मारुतायनम् ।।२९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy