________________
पद्मपुराणम् ।
१७
सप्ततितमं पर्व ।
यावद्भगवती तस्य सा सिद्धिं न प्रपद्यते । तावत्कोपयतः क्षिप्रं तं गत्वा नियमस्थितम् ॥ ४ ॥ तस्यां सिद्धिमुपेतायां देवेन्द्रैरपि शक्यते । न स साधयितुं कैव क्षुद्रेष्वस्मासु संकथा ।। ५ ।। ततो विभीषणेनोक्तं कर्त्तव्यं चेदिदं ध्रुवम् । द्रुतं प्रारभ्यतां कस्माद्भवद्भिरवलंव्यते ॥ ६ ॥ संप्रधार्य समस्तैस्तैः पद्मनाभाय वेदितम् । गदितं च यथा लंकाप्रस्तावे गृह्यतामिति ॥ ७ ॥ बाध्यतां रावणः कृत्यं क्रियतां च यथेप्सितम् । इत्युक्तः स जगौ धीरो महापुरुषचेष्टितः ||८|| भीतादिष्वपि नो तावत् कर्तुं युक्तं विहिंसनम् । किं पुनर्नियमावस्थे जने जिनगृहस्थिते ॥ ९ ॥ नैषा कुलसमुत्थानां क्षत्रियाणां प्रशस्यते । प्रवृत्तिर्गर्वतुंगानां खिन्नानां शस्त्रकर्मणि ॥ १० ॥ महानुभावधीर्देवो विधर्मे न प्रवर्त्तते । इति प्रधार्य ते चक्रुः कुमारान् गामिनो रहः ॥ ११ ॥ वो गताः स्म इति प्राप्ता अपि बुद्धिं नभश्वराः । अष्टमात्रदिनं कालं संप्रधारणया स्थिताः १२ पूर्णमास्यां ततः पूर्णशशांकसदृशाननाः । पद्मायतेक्षणा नानालक्षणध्वजशोभिनः ॥ १३ ॥ सिंहव्याघ्रवरा हे भशरभादियुतान् रथान् । विमानानि तथाssरूढा गृहीतपरमायुधाः ॥ १४ ॥ कुमाराः प्रस्थिता लंकां शंकामुत्सृज्य सादराः । रावणक्षोभणाकूता मवनामरभासुराः ।। १५ ।। मकरध्वजसाटोपचंद्राभरतिवर्द्धनाः । वातायनो गुरुभरः सूर्यो ज्योतिर्महारथः ॥ १६ ॥
३-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org