________________
पद्मपुराणम् ।
सप्ततितम पर्व। क्रोधाद्विकुरुते किंचिदिवसष्वेषु यो जनः । पिताऽपि किं पुनः शेषः स मे वध्यो भविष्यति १६ युक्तो रोधिसमाधिभ्यां संसारं सोऽन्तवर्जितम् । प्रतिपद्येत यो न स्यात्समादिष्टस्य कारका १७
ततो यथाऽऽज्ञापयसीति संभ्रमी । मुदा तदाज्ञां शिरसा प्रतीक्ष्य सः॥
__ चकार सर्व गदितं जनैश्च । तथा कृतं संशयसंगवर्जितैः ॥ १८ ॥ जिनेन्द्रपूजाकरणप्रसक्ता । प्रजा बभूवापरकार्यमुक्ता ॥
रविप्रभाणां परमालयाना-मन्तर्गता निर्मलतुंगभावा ॥ १९॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मचरिते लोकनियमकरणाभिधानं नामैकोनसप्ततितमं पर्व |
अथ सप्ततितमं पर्व । सवृत्तांतश्चरास्येभ्यस्तत्र परबले श्रुतः । ऊचुश्च खेचराधीशा जयप्राप्तिपरायणाः ॥१॥ किल शांतिजिनेंद्रस्य प्रविश्य शरणं सुधीः । विद्या साधयितुं लग्नः स लंकापरमेश्वरः ॥२॥ चतुर्विंशतिभिः सिद्धिं वासरैः प्रतिपद्यते । बहुरूपेति सा विद्या सुराणापि भंजती ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org