SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । एकोनसप्ततितमं पर्व । विद्यासाधनसंयुक्तमानसः स्थिरनिश्चयः । प्रविश्य रावणः पूजामकरोत्परमाद्भुताम् ॥३॥ अभिषेकैः सवादित्रैर्माल्यैरतिमनोहरैः । धूपैर्वल्युपहारैश्च सद्वर्णैरनुलेपनैः ॥ ४ ॥ चक्रे शांतिजिनेंद्रस्य शांतचेता दशाननः । पूजां परमया युत्या शुनाशीर इवोद्यतः ॥५॥ चूडामणिहंसद्धंधकेशमौलिमहाद्युतिः । शुक्लांशुकधरः पीनकेयूरार्चितसद्भुजः ॥ ६॥ कृतांजलिपुटः क्षोणी पाडयन् जानुसंगमात् । प्रणामं शांतिनाथस्य चकार त्रिविधेन सः ॥७॥ शांतेरभिमुखः स्थित्वा निर्मले धरणीतले । पर्यकार्धनियुक्तांगः पुष्परागिणि कुट्टिमे ॥ ८॥ विभ्रत्स्फटिकनिमोणामक्षमालां करोदरे । वलाकापंक्तिसंयुक्तनीलांभोदचयोपमः ॥९॥ एकाग्रध्यानसंपन्नो नासाग्रस्थितलोचनः । विद्यायाः साधनं धीरः प्रारंभे राक्षसाधिपः ॥१०॥ दत्ताज्ञापूर्वमेवाथ नाथेन प्रियवर्तिनी । अमात्यं यमदंडाख्यमादिदेश मयात्मजा ॥ ११ ॥ दाप्यतां घोषणा स्थाने यथा लोकः समंततः । नियमेषु नियुक्तात्मा जायतां सुदयापरः ॥१२॥ जिनचंद्राः प्रपूज्यतां शेषव्यापारवर्जितैः । दीयतां धनमर्थिभ्यो यथेष्टं हृतमत्सरैः ॥ १३ ॥ यावत्समाप्यते योगो नायं भुवनभोगिनः । तावत् श्रद्धापरो भूत्वा जनस्तिष्ठतु संयमी ॥१४॥ निकारो यादारोऽपि कुतश्चिनीचतो भवेत् । निश्चितं सोऽपि सोढव्यो महाबलयुतैरपि ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy