________________
पद्मपुराणम् ।
एकोनसप्ततितमं पर्व। ते विभूतिं परां चक्रुर्विद्येशा भक्तितत्पराः । नंदीश्वरे यथा देवा जिनबिवार्चनोग्रताः ॥ २१ ॥
अयमपि राक्षसवृषभः । पृथुप्रतापः सुशांतिगृहमभिगम्य ॥
पूजां करोति भक्त्या । बलिरिव पूर्व मनोहरां शुचिर्भूत्वा ॥ २२ ॥ समुचितविभवयुतानां । जिनेंद्रचंद्रान सुभक्तिभारधराणाम् ॥
पूजयतां पुरुषाणां । कः शक्तः पुण्यसंचयान् प्रचोदायतुम् ॥ २३ ॥ भुक्त्वा देवविभूति । लब्ध्वा चक्रांकभोगसंयोगम् ॥
रवितोऽपि तपस्तीत्रं । कृत्वा जैनं व्रजंति मुक्ति परमाम् ॥ २४ ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मपुराणे फाल्गुनाष्टाह्निकामहिमाविधानं नामाष्टषष्टितम पर्व |
अथैकोनसप्ततितमं पर्व। अथ शांतिजिनेन्द्रस्य भवनं शांतिकारणम् । कैलासकूटसंकाशं शरदचयोपमम् ॥ १॥ स्वयंप्रभासुरं दिव्यं प्रासादालीसमावृतम् । जंबूद्वीपस्य मध्यस्थं महामेरुमिवोत्थितम् ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org