SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ १३ षष्टित पर्व | पद्मपुराणम् । गत्वा नंदीश्वरं भक्त्या पूजयंति जिनेश्वरान् । देवेश्वरा न ते पूज्याः क्षुद्रकैः किमिह स्थितैः ||८|| अर्चयंति सुराः पद्मे रत्नजांबूनदात्मकैः । जिनास्ते भुविनिर्वित्तैः पूज्यश्चित्तदलैरपि ॥ ९ ॥ इति ध्यानमुपायाता लंकाद्वीपे मनोरमे । जनाचैत्यानि सोत्साहाः पताकाद्यैरभूषयन् ॥ १० ॥ सभाः प्रपाच मंचाथ पट्टशाला मनोहराः । नाट्यशाला विशालाश्च वाप्यश्च रचिताः शुभाः ११ सरांसि पद्मरम्याणि भांति सोपानकैर्वरैः । तटैर्भासितवस्त्रादिचैत्यकूटानि भूरिशः ॥ १२ ॥ कनकादिरजचित्र मंडलादिविराजितैः । रेजुश्चैत्यादिसद्द्द्वारैर्वस्त्ररंभादिभूषितैः ॥ १३ ॥ घृतक्षीरादिभिः पूर्णाः कलशाः कमलाननाः । मुक्तादामादिसत्कंठा रत्नरश्मिविराजिताः ॥ १४ ॥ जनबिंबाभिषेकार्थमाहूता भक्तिभासुराः । दृश्यंते भोगिगेहेषु शतशोऽथ सहस्रशः ॥ १५ ॥ नंदनप्रभवैः फुलैः कर्णिकाररातिमुक्तकैः । कदंबैः सहकारैश्च चंपकैः पारिजातकैः ॥ १६ ॥ मंदारैः सौरभावद्धमधुवत कदंबकैः । राजो विरचिता रेजुवैत्येषु परमोज्ज्वलाः || १७ | जातरूपमयैः पद्मे रजतादिमयैस्तथा । मणिरत्नशरीरैश्व पूजा विरचिता परा ।। १८ ॥ पटुभिः पटहैस्तूयैर्मृदंगैः काहलादिभिः । शंखैश्वाशु महानादैश्चैत्येषु समजायत ।। १९ ।। प्रशांतवैरसंबद्धैर्महानंदसमागतैः । जिनानां महिमा चक्रे लंकापुरनिवासिभिः ॥ २० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy