SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ पद्मपुराणम् । १२ अष्टषष्टितम पर्व। वित्तस्य जातस्य फलं विशालं । वदंति सुज्ञाः सुकृतोपलंभम् ॥ धर्मश्च जैनः परमोऽखिलेऽस्मि-जगत्यभीष्टस्य रविप्रकाशे ॥ २८ ॥ इत्याचे रविषेणाचार्यप्रोक्ते शांतिगृहकीर्तनं नाम सप्तषष्टित्तमं पर्व । अथाष्टषष्टितमं पर्व। अथ फाल्गुनिके मासे गृहीत्वा धवलाष्टमीम् । पौर्णमासी तिथिं यायल्लमो नंदीश्वरो महः ॥१॥ नंदीश्वरमहे तस्मिन् प्राप्ते परमसंपदः । बलद्वयेऽपि लोकोऽभून्नियमग्रहणोद्यतः ॥२॥ एवं च मानसे चक्रुः सर्वे सैनिकपुङ्गवाः । सुपुण्यानि दिनान्यष्टावेतानि भुवनत्रये ॥ ३ ॥ नैतेषु विग्रहं कुर्मो न चान्यदपि हिंसनम् । यजामहे यथाशक्ति स्वश्रेयसि परायपाः ॥ ४ ॥ भवंति दिवसेप्येषु भोगादिपरिवर्जिताः । सुरा अपि जिनेन्द्राणां सेंद्राः पूजनतत्पराः ॥५॥ क्षीरोदवारिसंपूर्णैः कुभैरंभोजशोभिभिः । शातकुंभैरभं भक्ताः स्नापयंति जिनान् सुराः ॥ ६॥ अन्यैरपि जिनेंद्राणां प्रतिमाः प्रतिमोज्झिताः । भावितैरभिषेक्तव्याः पलाशादिपुटैरपि ॥ ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003656
Book TitlePadmacharitam Part 03
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages456
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy