________________
पद्मपुराणम् ।
सप्तषष्टितम पर्व। नानारत्नमयैः कांतैरुद्यानादिविभूषितैः । व्याप्तं जगदिदं रेजे जिनेन्द्रभवनैः शुभैः ॥ २१ ।। महेन्द्रनगराकारा लंकाऽप्येवं मनोहरा । अन्तर्वहिश्च जैनेन्द्रर्भवनैः पापहारिभिः॥ २२ ॥ यथाष्टादशसंख्यानां सहस्राणां सुयोषिताम् । पद्मिनीनां सहस्रांशुः स चिक्रीड दशाननः ॥२३॥ प्रावृदमेघदलच्छायो नागनासा महाभुजः । पूर्णेन्दुवदनः कांतो बंधूकछदनाधरः ।। २४ ॥ विशालनयनो नारमिनाकर्षणविभ्रमः । लक्ष्मीधरसमाकारो दिव्यरूपसमन्विताः ॥ २५ ॥ तस्मिन्नाश्रितसर्वलोकनयने प्रासादमालावृते, नानारत्नमये दशाननगृहे चैत्यालयोद्भासिते । हेमस्तंभसहस्रशोभि विपुलं मध्ये स्थितं आसुरं ।
तुंगं शांतिगृहं स यत्र भगवान् शांतिर्जिनः स्थापितः ॥ २६ ।। वंद्यानां त्रिदशेन्द्रमौलिशिखरप्रत्युप्तरत्नस्फुर
त्स्फीतांशुमकरात्प्रसारिचरणप्रोत्सर्पिनक्षत्विषाम् ।। ज्ञात्वा सर्वमशाश्वतं परिदृढामाधाय धर्मे मतिं ।।
धन्याः सद्युति कारयंति परमं लोके जिनानां गृहम् ॥ २७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org